SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ योगशतक-सूत्र : ८३-८४-८५-८६ किन्तु लाभ एव । कुतः ? इत्याह-लब्धीनामपि'-रत्नादिरूपाणां योगानुभावत एव' योगसामर्थ्यात् 'सम्प्राप्ति:'-शोभना प्राप्तिः परोपकारफला अस्य योगिनः 'यत्'-यस्मात् कारणाद् वर्णिता 'समये'-सिद्धान्ते । इति गाथार्थः ॥८३ ॥ लब्धीनां स्वरूपमाह रयणाई. लद्धीओ अणिमादीयाओ तह य चित्ताओ । आमोसहाइयाओ तहातहा योगवुड्ढीए ॥४४॥ रत्नाद्या लब्धयः “स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात्" [पा. योग ३-५१] इति वचनात् । अणिमाद्याश्च तथा 'चित्रा:'-"अणिमा महिमा लघिमा प्राप्तिः प्राकाम्यं ईशिता वशिता यत्रकामावसायिता च"[] इति वचनात् । 'आमर्पोषध्याद्याः'-"आमोसहि विप्पोसहि खेलोसहि." [आव. नि. ६९] इति वचनात् । एताश्च तथातथाप्रकारेण उत्तरोत्तरपरिशुद्धवृद्धिरूपेण योगवृद्धः सकाशाद् भवन्ति, तच्छोभनाहारो लघ्वी मात्रा । इति गाथार्थः ॥८४॥ अधिकृतावस्थाफलमाह एतीए एस जुत्तो सम्मं असुहस्स खवग मो णेओ । .. इयरस्स बंधगो तह सुहेणमिय मोक्खगामि त्ति ॥८५॥ . एतया'-योगवृद्ध्या भावनया वा 'एषः'-योगी ‘युक्तः'-घटितः । किम् ? इत्याह-सम्यग् अपुनर्बन्धकत्वेन अशुभस्य कर्मणः क्षपको ज्ञेयः । 'मो' इति अत्र स्थानेऽवधारणार्थो निपातः, एतयैव, अन्यथा क्षपणस्यापि भूयोऽधिकभावेनाक्षपणत्वात् । 'इतरस्य'-शुभस्य कर्मणः विशिष्टदेश-कुलजात्यादि निमित्तस्य बन्धकः, ज्ञेय इति वर्तते । तथा'-तेन प्रकारेणानुबध्नानः शुभशुभतरप्रवृत्त्या प्रकृष्टफलदानरूपेण, एवं किम् ? इत्याह-'सुखेनैव'सुखपरम्परया 'मोक्षगामी'-भवान्तकृत्। इति गाथार्थः ॥८५॥ साम्प्रतमधिकृतभावनासाध्यमेव वस्तु तन्त्रान्तरपरिभाषया अन्वयव्यतिरेकत: खल्वविरोधि इति प्रदर्शयन्नाह कायकिरियाए दोसा खविया मंडुक्कचुण्णतुल्ल त्ति । ते चेव भावणाए नेया तच्छारसरिस त्ति ॥८६॥ . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy