________________
योगशतक-सूत्र : ८०-८१-८२-८३ . रत्नादाविव मार्गानुसारिणाम् । इति गाथार्थः ॥८॥
अत्रैव सामान्यविधिमाह
साहारणो पुण विही सुक्काहारो इमस्स विण्णेओ ।
अणणत्थओ य एसो उ सव्वसंपक्करी भिक्खा ॥१॥ साधारण: पुनर्विधिः सर्वावस्थानुगत इत्यर्थः, शुक्लाहारोऽस्य विज्ञेयः । शुद्धानुष्ठानसाध्यः शुद्धानुष्ठानहेतुः स्वरूपशुद्धश्च शुक्ल इति । अस्य'-योगिनः एवम्भूतो विज्ञेयः, तदन्यस्य योगाङ्गत्वानुपपत्तेः, न ह्यपथ्यानभुजो देहाद्यारोग्यसिद्धिः अन्वर्थतश्चैष पुनः शुक्लाहारः सर्वसम्पत्करी भिक्षेति विज्ञेयः । सर्वसम्पत्करणशीला सम्पत्करी दातृ-ग्रहीत्रुभयलोकहिता, पौरुषघ्नी-वृत्तिभिक्षाव्यवच्छेदार्थमेतत् । अत्र बहु वक्तव्यं तत् तु नोच्यते, गमनिकामात्रत्वात् प्रारंम्भस्य । इति गाथार्थः ॥१॥
वणलेवोवम्मेणं उचियत्तं तग्गयं निओएणं ।
एत्थं अवेक्खियव्वं, इहराऽयोगो त्ति दोसफलो ॥२॥ अत्रैव विशेषमाह
'व्रणलेपौपम्येन'-सकललोकसिद्धेन उचितत्वं 'तद्गतम्'-आहारगतं 'नियोगेन'-अवश्यन्तया अत्र'-प्रक्रमे अपेक्षितव्यम्, 'इतरथा'-अन्यथा अयोगः' -असम्बन्ध इति कृत्वा व्रणलेपवदेवाऽऽहारो दोषफल इति । एतदुक्तं भवतियथा व्रणः स्वरूपभेदात् कश्चिनिम्बतिलोचितः कश्चिच्चिक्कशोचितः कश्चिद् गवादिघृतोचित इति, तत्र विपर्ययलेपदाने दोषः; एवं कश्चिद् यतिकायः कोद्रवाद्योदनोचितः, कश्चित् शाल्याचोदनोचितः, कश्चिद् हविःपूर्णाधुचित इति, अत्रापि विपर्ययदाने दोषः, गम्भीरबुद्ध्या परिभावनीयमेतत् । इति गाथार्थः ॥४२॥ कथमुचितस्य लाभ: ? इत्याशङ्कानिरासार्थमाह
जोगाणुभावओ च्चिय पायं ण य सोहणस्स वि अलाभो ।
लद्धीण वि संपत्ती इमस्स जं वणिया समए ॥३॥ 'योगानुभावत एव' - योगसामर्थ्यत एव तत्प्रतिबन्धककर्मनिवृत्तेः 'प्राय:'- बाहुल्येन । न च 'शोभनस्यापि'-आहारस्य हवि:पूर्णादेः अलाभः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org