________________
योगशतक-सूत्र : ७८-७९-८०
५५ सम्बन्धि । तथा 'चित्तस्थैर्य च'-आनन्दसमाधिबीजं जायते । किंविशिष्टम् ? इत्याह-'भवानुगामि'-जन्मान्तरानुगमनशीलं 'शिवसुखसंसाधकं'-पारम्पर्येण मोक्षसुखसाधकमित्यर्थः । 'परमं'-प्रधानं चित्तस्थैर्य शिवाध्वविजयदुर्गावाप्तिलक्षणम् । इति गाथार्थः ॥७७॥ इहैव विध्यन्तरमाह
अहवा ओहेणं चिय भणियविहाणाओ चेव भावेज्जा । - सत्ताइएसु मेत्ताइए गुणे परमसंविग्गो ॥७८॥ _ 'अथवा' इति प्रकारान्तरप्रदर्शनार्थः । ओघेनैव'-सामान्येनैव भणितविधानेनैव स्थानादिना 'भावयेत्'-प्रणिधानसारमभ्यस्येत् । क्व कान् ? इत्याह'सत्त्वादिषु'-सत्त्व-गुणाधिक-क्लिश्यमानाऽविनेयेषु 'मैत्र्यादीन् गुणान्'-मैत्रीप्रमोद-कारुण्य-माध्यस्थ्यलक्षणान् ‘परमसंविग्नः'-लब्धिपूजाख्यात्याद्याशयरहितः । इति गाथार्थः ॥७८ ॥ एतदेव विशेषेणाभिधातुमाह
सत्तेसु ताव मेत्तिं, तहा पमोयं गुणाहिएसुं ति ।
करुणा-मज्झत्थत्ते किलिस्समाणाऽविणेएसु ॥७९॥ सत्त्वेषु सर्वेष्वेव तावदादौ 'मैत्री' प्रत्युपकारानपेक्षसम्बन्धां सुखरूपां भावयेत् । तथा 'प्रमोदं'-बहुमानाशयलक्षणं 'गुणाधिकेषु'-इति स्वगुणाधिकेषु सत्त्वेषु । तथा 'करुणा-मध्यस्थत्वे'-कृपोपेक्षारूपे यथासंख्यमेतत् 'क्लिश्यमानाविनेययोः' क्लिश्यमानेषु करुणा, अविनेयेषु माध्यस्थ्यम् । इति गाथार्थः ॥७९॥ क्रमान्तराशङ्कापोहायाह- . .
एसो चेवेत्थ कमो उचियपवित्तीए वण्णिओ साहू ।
इहराऽसमंजसत्तं तहातहाऽठाणविणिओया ॥४०॥ 'एष एव'-अनन्तरोदितः अत्र'-भावनाविधौ ‘क्रमः'-प्रवृत्तिप्रस्ताररूप: 'उचितप्रवृत्तेः' कारणाद् वर्णित: 'साधु:'-शोभन: तीर्थंकरगणधरैः । तथाहि सामान्येन सत्त्वेषु मैत्री एवोचिता, प्रमोदो गुणाधिकेष्वेव, क्लिश्यमानेष्वेव करुणा, अविनेयेष्वेव माध्यस्थ्यम् । इत्थं चैतदङ्गीकर्तव्यम् इत्याह-'इतरथा'अन्यथोक्तक्रमबाधायाम् 'असमञ्जसत्वं'-सन्न्यायविरुद्धं भवति, अत्र हेतुः तथातथाऽस्थानविनियोगादिति, सत्त्वादिषु प्रमोदादिकरणे अस्थाननियोगो मिथ्याभावनात्मकः प्रत्यवायायेति भावनीयम् । गुणाधिकज्ञानं च क्षयोपशमविशेषाद्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org