SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ . ५४ योगशतक-सूत्र : ७३-७४-७५-७६-७७ आज्ञयेति द्वारं व्याचिख्यासुराह आणाए चिंतणम्मी तत्तावगमो णिओगओ होति । भावगुणागरबहुमाणओ य कम्मक्खओ परमो ॥७४॥ . 'आज्ञया' परमगुरुवचनरूपया हेतुभूतया चिन्तने अधिकृतस्य वस्तुनः 'तत्त्वावगमः'-तत्त्वपरिच्छेदः 'नियोगतो भवति'-अवश्यं भवतीति, रागादिविषं प्रति परममन्त्रकल्पत्वादाज्ञायाः । अत एवाहुरपरे-"अमन्त्रापमार्जनकल्पाफलं प्रत्यनागमा क्रिया" [ ]इति । तथा भावगुणाकरबहुमानाच्च'तीर्थकरबहुमानाच्चाऽऽज्ञासारया प्रवृत्त्या कर्मक्षयः परमः, स्थानबहुमानेन तुल्यक्रियायामेवाऽऽज्ञाराधन-विराधनाभ्यां कर्मक्षयादिविशेषात् । इति गाथार्थः ॥७४॥ विविक्तदेशगुणानाह पइरिक्के वाघाओ न होइ पाएण योगवसिया य । जायइ तहा पसत्था हंदि अणब्भत्थजोगाणं ॥७५॥ "पइरिक्के"-विविक्ते-एकान्ते व्याघातो न भवति अधिकृतयोगस्य 'प्रायेण'-बाहुल्येन, विक्षेपनिमित्ताभावात् । 'योगवशिता च'-योगाभ्याससामर्थ्यलक्षणा जायते तथा प्रशस्ता, विधिप्रवृत्तेरसद्ग्रहाभावात् । 'हन्दि' इत्युपप्रदर्शने । 'अनभ्यस्तयोगानाम्'-आदियोगानाम् । इति गाथार्थः ॥७५ ॥ चरममुपयोगद्वारं व्याचिख्यासुराह उवओगो पुण एत्थ विण्णेओ जो समीवजोगो त्ति । विहियकिरियागओ खलु अवितहभावो उ सव्वत्थ ॥७६ ॥ उपयोगः पुनः 'अत्र'-प्रक्रमे विज्ञेयो यः 'समीपयोगः'-सिद्धेः प्रत्यासन्न इति । स चायमित्याह-'विहितक्रियागतः खलु'-स्थानादिक्रियाविषय इत्यर्थः । 'अवितथभावस्तु'-यथोक्तभाव एव 'सर्वत्र स्थानादौ । एतल्लिङ्ग एव बोधः परलोकपक्षपातो भगवद्बहुमानश्च, भावनीयमेतत् । इति गाथार्थः ॥७६ ॥ उपसंहरनाह एवं अब्भासाओ तत्तं परिणमइ चित्तथेजं च । जायइ भवाणुगामी सिवसुहसंसाहगं परमं ॥७७॥ "एवम्'-उक्तेन न्यायेन अभ्यासाद् हेतोः तत्त्वं परिणमति रागादिविषय Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy