________________
योगशतक - सूत्र : ७२-७३
५३
सत्त्वाऽविशेषात् सकलशक्तयभावाद् विवक्षिताऽसत्त्ववद् अविवक्षितमपि भवेत् हेत्वविशेषादिति समं घट - मृदाद्यभावापत्तिः, अनुपयोगिनी चेह तदन्यमृदादिपरिकल्पना, सतोऽसद्भवनस्वभावतया हेतुत्वेन तस्या अप्युक्तदोषानतिवृत्तेः, अवध्यभावे स्वभावान्तरकल्पनायोगादिति, एवं च
सतोऽपि भावेऽभावस्य विकल्पश्चेदयं समः । न तत्र किञ्चिद् भवति न भवत्येव केवलम् ॥
इत्यपि वचनमात्रमेव । ग्रन्थत एव हेतुद्वयासिद्धत्वपरिहारमाह'तथास्वभावत्वाभावादिति' - उभयत्रातिप्रसङ्गो व्यवस्थितः तथास्वभावत्वाभावात् । तथाहि--यदा अभावो भावो भवति तदा तथास्वभावत्वस्य - विवक्षितभावभवनस्वभावत्वस्य तत्राभावो नि:स्वभावतयैवेति प्रकटम्, यदाऽपि भाव एवाभावो भवति तदाऽपि तथास्वभावत्वस्य स्वाऽभवनस्वभावत्वस्य तत्राभावो नि:स्वभावतयैवेति भावनीयम् । इति गाथार्थः ॥७२॥
एवं विपक्षे बाधकप्रमाणमभिधाय स्वपक्षसिद्ध्यर्थमाह
एयस्स उ भावाओ णिवित्ति- अणुवित्तिजोगओ होति । उप्पायादी णेवं अविगारी वऽणुहवविरोहा ॥ ७३ ॥
‘एतस्य पुनः ’-तथास्वभावत्वस्य' भावात् ' - कारणाद् निवृत्त्यनुवृत्तियोगतो हेतोर्भवन्ति, के ? इ ( त्या ) ह । 'उत्पादादय: '- उत्पाद - व्यय - ध्रौव्याणि, प्रकारान्तरेणोक्तवदुत्पादाद्ययोगात् । नैवं प्रक्रमात् - पुरुषः अविकार्यपि अपिशब्दाद् विकार्यपि, अनुभवविरोधात्, एकान्तैकस्वभावेऽनुभवभेदायोगादिति हृदयम् । एतदुक्तं भवति यदैव विवक्षितभावभवनस्वा ( ? स्व ) भावोऽभावः तदैव स्वभावभावाद् जहाति सर्वथाऽभावत्वम्, यदाऽपि च स्वनिवृत्तिस्वभावस्तदाऽप्येवंविधस्वभावभावात् स्वनिवृत्तिमिति सूक्ष्मधियाऽऽलोचनीयम् । एवं चानुवृत्ति - व्यावृत्तिस्वभावम् वस्तुत्पादाद्यात्मकमिति सिद्धम् । उक्तं च"घट-मौलि- सुवर्णार्थी नाशोत्पाद- स्थितिष्वयम् । शोक- प्रमोद - माध्यस्थ्यं जनो याति सहेतुकम् ॥४७८ ॥ पयोव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः । अगोरसव्रतो नोभे, तस्मात् तत्त्वं त्रयात्मकम् ॥४७९॥"
[ शास्त्रवार्ता. स्त. ९] इति गाथार्थः ॥ ७३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org