________________
योगशतक - सूत्र : ७०-७१-७२
दोसम्म उ जीवाणं विभिण्णयं एव पोग्गलाणं च । अणवट्ठियं परिणतिं विवागदोसं च परलोए ॥७० ॥ द्वेषे पुनः सति जीवा - जीवविषये, किम् ? इत्याह-जीवानां विभिन्नतां चिन्तयेत्, अनुरागविषयोपरोधिनि प्रतिहति द्वेष इति ज्ञापनार्थमेतत्, अनुरागविषयोऽपि विभिन्नस्तदुपरोध्यपि भिन्न इति भावयेत् । एवं पुद्गलानां च तत्सम्बन्धिनामेव देह - तदुपघातकपुद्गलापेक्षया प्राग्वद् भावनेति । तथा अनवस्थितां परिणतिं जीवपुद्गलानामेव चिन्तयेदिष्टेतरादिभावेन । एवं 'विपाकदोषं च ' - परलोके द्वेषस्यैव सर्वस्यामनोरमत्वादिरूपम् । इति गाथार्थः ॥ ७० ॥ इदानीं मोहमधिकृत्य प्रतिपक्षमभिधातुमाह
५२
चिंतेज्जा मोहम्मी ओहेणं ताव वत्थुणो तत्तं ।
उपाय -वय- धुवजुयं अणुहवजुत्तीए सम्मं ति ॥ ७१ ॥
चिन्तयेद् मोहे सति 'ओघेन'- सामान्येन तावदादौ 'वस्तुन: '-जीवादेः 'तत्त्वं' - तद्भावम् । किम्भूतम् ? इत्याह-उत्पाद-व्यय- ध्रौव्ययुक्तं निमित्तभेदेन 'अनुभवयुक्त्या सम्यक्' - अनुभवप्रधाना युक्तिस्तया 'सम्यग् 'व्यवहारनिबन्धनत्वेन चिन्तयेत् । इति गाथार्थः ॥ ७१ ॥ अनुभवयुक्तिमेव लेशत आह
नाभावो च्चिय भावो अतिप्पसंगेण जुज्जइ कयाइ । णय भावोऽभावो खलु तहासहावत्तऽभावाओ ॥ ७२ ॥ नाभाव एव सर्वथा भावो युज्यते 'कदाचित्त्' इति कालावधारणम् । अतिप्रसङ्गेन हेतुना । यदि ह्यसदेव सद् भवेत् ततोऽसत्त्वाविशेषात् सकलशक्त्यभावाद् विवक्षितसत्त्ववद् अविवक्षितमपि भवेद् हेत्वविशेषादिति युगपद् [विवक्षिता-5] विवक्षितघटपटादिभावापत्तिः, अनुपयोगिनी चेह तदन्यहेतुपरिकल्पना, असज्जननस्वभावत्वेन तस्या अप्युक्तदोषानतिवृत्तेः, अवध्यभावे तद्विशेषकल्पनायोगादिति । एवं च
असदुत्पद्यते तद्धि विद्यते यस्य कारणम् ।
शशशृङ्गाद्यनुत्पत्ति र्हेत्वभावादितीष्यते ॥ [ शा.वा. समु. ४/४० ॥] इति वचनमात्रमेव । तथा न च भाव एकान्तेन अभाव एव युज्यते कदाचित्, अतिप्रसङ्गेन हेतुनेति वर्तते । यदि हि सदेवासद् भवेत्, ततः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org