________________
योगशतक-सूत्र : ६६-६७-६८-६९ 'ज्ञात्वा [ततः] तद्विषयतत्त्व' इत्यादि गाथा (६०) व्याख्यायते । आहएवमुत्क्रमदोषः, न, अर्थव्यापारेणोत्क्रमत्वासिद्धेः ।आह-सौत्रोऽन्यथा किमर्थम् ? अनन्तरसूत्रेण तथायोगात्, तथा हि-रागादिस्वरूपमभिधाय एतद् ज्ञात्वा तद्विषयतत्त्वादि चिन्तयेदित्येतदेवाभधिातुं युज्यते, 'कथमि'ति विधिस्तु पश्चात् तन्नान्तरीयकत्वात्, व्याख्यातः पुनरादौ विधिपुरस्सरत्वात् तद्विषयतत्त्वादिचिन्तनस्येति । तदेवमाद्यद्वारगाथावयवव्याचिख्यासयाह
थीरागम्मी तत्तं तासिं चिंतेज सम्मबुद्धीए ।
कलमल-मंस-सोणिय-पुरीस-कंकालपायं ति ॥६७॥ स्त्रीरागे सति तत्त्वं तासां'-स्त्रीणां चिन्तयेत् सम्यग्बुद्ध्या परमगुरुवचनगर्भया, अन्यथा तत्त्वचिन्तनायोगात् । किंविशिष्टं तत्त्वम् ? इत्याह-कलमलकमांस-शोणित-पुरीष-कङ्कालप्रायमिति' कलमलं-धात्वन्तरे जम्बालम् मांसशोणितादयस्तु प्रसिद्धाः एतद्रूपमेव तत्त्वम् । इति गाथार्थः ॥६७ ॥तथा
रोग-जरापरिणामं णरगादिविवागसंगयं अहवा ॥
चलरागपरिणतिं जीयनासणविवागदोसं ति ॥६८॥ - रोग-जरापरिणामं तत्त्वं 'तासामि'ति वर्तते । तथा नरकादिविपाकसङ्गतमेतदेव तद्भोकापेक्षया । अथवा चलरागपरिणत्येतदेव । तथा जीवितनाशनविपाकदोषमिति, "विषं विरक्ता स्त्री" इति वचनात् । इति गाथार्थः ॥१८॥
. एवं सचेतने वस्तुनि रागमधिकृत्य तद्विषयतत्त्वादिचिन्तनमुक्तम् । अधुना त्वचेतनमधिकृत्याह
अत्थे रागम्मि उ अजणाइदुक्खसयसंकुलं तत्तं ।
गमणपरिणामजुत्तं कुगइविवागं च चिंतेजा ॥६९॥ अर्थ्यत इति अर्थः, अर्थविषये पुना रागे अर्जनादिदुःखशतसङ्कलं तत्त्वम् अर्थस्य चिन्तयेदिति योगः, अर्जन-रक्षण-क्षय-भोगा ह्यर्थस्य लोकद्वयविरोधिनो दु:खाय । तथा गमनपरिणामयुक्तं अर्थस्य तत्त्वम्, पादरज:समो ह्ययम् । एवं कुगतिविपाकं चैतत् काष्ठकीटोदाहरणेन चिन्तयेत् । इति गाथार्थः ॥१९॥ एवं रागप्रतिपक्षभावनामभिधाय साम्प्रतं द्वेषमधिकृत्याह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org