________________
योगशतक-सूत्र : ६३-६४-६५-६६ जह चेव मंत-रयणाइएहिं विहिसेवगस्स भव्वस्स ।
उवगाराभावम्मि वि तेसिं होइ त्ति तह एसो ॥३॥ यथैव मन्त्र-रत्नादिभ्यः सकाशाद् विधिसेवकस्य भव्यस्य प्राणिन उपकाराभावेऽपि तेषां'-मन्त्रादीनां भवत्यनुग्रह इति, तथा 'एषः'-गुरुदेवतानुग्रहः । इति गाथार्थः ॥६३॥ स्थानादिगुणानाह
ठाणा कायनिरोहो तकारीसु बहुमाणभावो य ।
दंसादिअगणणम्मि वि वीरियजोगो य इट्ठफलो ॥६४॥ _ 'स्थानात्'-पद्मासनादेः कायनिरोधो भवति । तत्कारिषु -अन्ययोगिषु गौतमादिषु बहुमानभावश्च, शुभाभिसन्धिना तच्चेष्टाऽनुकारात् । दंशाद्यगणनेऽपि सति वीर्ययोगः चशब्दात् तत्त्वानुप्रवेशश्च 'इष्टफल:'-योगसिद्धिफलः । इतिगाथार्थः ॥६४॥ तद्गताध्यात्मगुणानाह
तग्गयचित्तस्स तहोवओगओ तत्तभासणं होति ।
एय एत्थ पहाणं अंगं खलु इट्ठसिद्धीए ॥६५॥ 'तद्गतचित्तस्य'-तद्विषयतत्त्वादिगतचित्तस्य तथोपयोगत:'-तेनैकाग्रताप्रकारेणोपयोगाद् हेतोः, किम् इत्याह-'तत्त्वभासनं भवति-अधिकृतवस्तुनः तद्भावभासनमुपजायते । एतच्चात्र 'प्रधानमङ्ग'-श्रेष्ठं कारणम् खलु' इत्येतदेव, कस्याः ? इत्याह-'इष्टसिद्धेः'-भावनानिष्पत्तेः सकललब्धिनिमित्तसाकारोपयोगत्वेन । इति गाथार्थः ॥६५॥ प्राधान्यमेवोपदर्शयन्नाह
एयं खु तत्तणाणं असप्पवित्तिविणिवित्तिसंजणगं ।
थिरचित्तगारि लोगदुगसाहगं बेंति समयण्णू ॥६६॥ 'एतदेव तत्त्वज्ञानं'-यदधिकृततत्त्वभासनम्, श्रुत-चिन्तामयनिरासेन भावनामयमित्यर्थः । अत एव 'असत्प्रवृत्तिविनिवृत्तिसञ्जनकं'-मिथ्याज्ञाननिबन्धनप्रवृत्तिनिवर्तकमिति भावना । तथा "स्थिरचित्तकारि'-उपप्लवत्यागतो निष्प्रकम्पचित्तकारि, विजयसमाधिबीजमित्यर्थः । अत एव लोकद्वयसाधकमौत्सुक्यनिवृत्ति-कुशलानुबन्धाभ्यामिहलोक-परलोकसाधकमिति हृदयम्, ब्रुवते 'समयज्ञाः'-सिद्धान्तज्ञाः । इति गाथार्थः ॥६६॥
व्याख्याता 'गुरु-देवताप्रणामं कृत्वा' इति द्वारगाथा(६१), साम्प्रतं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org