________________
योगशतक-सूत्र : ५९-६०-६१-६२ अनेन च विधिनैवं किम् ? इत्याह
णाऊण ततो तव्विसयतत्त-परिणइ-विवागदोसे त्ति ।
चिंतेजाऽऽणाए दढं पइरिक्के सम्ममुवउत्तो ॥६०॥ 'ज्ञात्वा' आत्मानं रागादिबहुलतया तत:'-तदनन्तरं तद्विषयतत्त्वपरिणतिविपाकदोषानिति चिन्तयेत्, तद्विषय:-रागादिविषयः स्त्र्यादिलक्षणः तस्य 'तत्त्वं'स्वरूपं कलमलादि, परिणति:-तस्यैव रोग-जरादिरूपा, विपाक:-नरकादिः, एत एव दोषाः, एतान् ‘इति' एवमेव 'चिन्तयेत्'-भावयेत् । 'आज्ञया दृढम्''आज्ञया'-वीतरागवचनलक्षणया हेतुभूतया, तस्यास्तत्त्वावगमादिहेतुत्वात्, 'दृढम्'-अत्यर्थं "पइरिक्के" इति देशीपदं एकान्तार्थवाचकम्, एकान्ते विविक्ते, तत्र व्याघाताभावात्, 'सम्यगुपयुक्तः'-साकल्येन विहितक्रियासमेतः, सामग्रीसाध्यत्वाद् अभिप्रेतकार्यस्य । इति गाथार्थः ॥६० ॥ इहैव विशेषमाह
गुरु-देवयापणामं काउं पउमासणाइठाणेण ।
दंस-मसगाइ काए अगणेतो तग्गयऽज्झप्पो ॥६१॥ गुरु-देवताप्रणामं कृत्वा तदनुगृहीतः तद्विषयतत्त्वादि चिन्तयेत् । कथम् ? पद्मासनादिस्थानेन कायनिरोधाद्यर्थं दंश-मशकादीन् काये अगणयन् स्ववीर्येण तद्गताध्यात्म: तत्त्वावभासनाय । इति गाथार्थः ॥६१॥
एष तावदधिकृतगाथाद्वयस्य समुदायार्थः । अवयवार्थं तु स्थूलोच्चयेन ग्रन्थकार एवाभिधातुमाह- .
गुरु-देवयाहि जायइ अणुग्गहो, अहिगयस्स तो सिद्धी । - एसो य तनिमितो तहाऽऽयभावाओ विण्णेओ ॥१२॥
गुरुदेवताभ्यो जायतेऽनुग्रहः, प्रणामादिति गम्यते । 'अधिकृतस्य'तद्विषयतत्त्वादिचिन्तनस्य 'तत:'-अनुग्रहात् 'सिद्धिः'-निष्पत्तिः । 'एष च'अनुग्रहः 'तन्निमित्तः'-गुरु-देवतानिमित्तः 'तथात्मभावात्'-तद्बहुमानालम्बनाद् 'विज्ञेयः'- सातव्यः, एवं तदा तद्भावेन तन्माध्यस्थ्यादौ । इति गाथार्थः ॥१२॥
एतद्भावनायैवाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org