________________
. ४८
योगशतक-सूत्र : ५६-५७-५८-५९
'मूर्तेन'-कर्मणा 'अमूर्तिमत:'-जीवस्य, किम् ? इत्याह-उपघाताऽनुग्रहावपि युज्यते, अन्यत्र तथोपलम्भादित्यभिप्रायः । निदर्शनमाह-यथा विज्ञानस्य इह'-लोके 'मदिरापानौषधादिभिः' मदिरापानेनोपघातः, ब्राह्मयाद्यौषधादनुग्रहः । इति गाथार्थः ॥५६॥ प्रस्तुतनिगमनायाह
एवमणादी एसो संबंधो कंचणोवलाणं व ।
एयाणमुवाएणं तह वि विओगो वि हवइ त्ति ॥५७॥ ‘एवम्'-उक्तन्यायाद् अनादिरेष सम्बन्धः ।निदर्शनमाह-काश्चनोपलयोरिव, निसर्गमात्रतयोदाहरणम्, 'एतयोः' इति जीव-कर्मणोः यद्यप्येवम् ‘उपायेन'सम्यग्दर्शनादिना तथापि वियोगोऽपि भवति, क्षार-मृत्पुटपाकादिना काञ्चनोपलयोरिव । इति गाथार्थः ॥१७॥ एवं व्यवस्थिते सति प्रस्तुतसौविहित्यमाह
एवं तु बंध-मोक्खा विणोवयारेण दो वि जुजंति ।
सुह-दुक्खाइ य दिट्ठा, इहरा ण, कयं पसंगेण ॥५८॥ . एवमेव बन्ध-मोक्षौ सकलसमयसिद्धौ ‘विनोपचारेण'-उपचारं विना द्वावपि 'युज्येते'-घटेते, अकल्पितावित्यर्थः । सुख-दुःखादयश्च 'दृष्टाः'सकललोकसम्मता: युज्यन्ते, मुख्यनिबन्धनोपपत्तेः । 'इतरथा'-उक्तप्रकारव्यतिरेकेण 'न' इति न युज्यन्ते बन्धादयः, मुख्यनिबन्धनानुपपत्तेरिति भावनीयम् । 'कृतं प्रसङ्गेन -पर्याप्तमित्थमप्रस्तुतेन। इति गाथार्थः ॥१८॥ प्रकृताभिधित्सयाह
तत्थाभिस्संगो खलु रागो, अप्पीइलक्खणो दोसो ।
अण्णाणं पुण मोहो, को पीडइ मं दढमिमेसिं ? ॥५९॥ तत्राभिष्वङ्गः खलु 'राग:'-भावरागः, रञ्जनं राग इति कृत्वा । अप्रीतिलक्षणो द्वेषः, स्वरूपस्यैव लक्षणत्वाद् भावद्वेष एव । अज्ञानं पुनर्मोहः, मोहनं मोह इति कृत्वा । कः 'पीडयति '-बाधते मां 'दृढम्'-अत्यर्थम् 'अमीषां'रागादीनाम्, एवमात्मप्रेक्षणमिति । सुज्ञानं चैतद् विदुषां शास्त्रानुसारतः क्षयोपशमविशेषात्, सुप्तमण्डितप्रतिबुद्धादर्शकदर्शनन्यायसिद्धमेतत् । अनीदृशस्य तु योगेऽनधिकार एव । इति गाथार्थः ॥१९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org