SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ योगशतक - सूत्र : ५३-५४-५५-५६ इह दोषापेक्षयेत्युक्तम् इति दोषाणामेव स्वरूपमाह रागो दोसो मोहो एए एत्था ऽऽयदूसणा दोसा । कम्मोदयसंजणिया विण्णेया आयपरिणामा ॥ ५३ ॥ रागो द्वेषो मोह एते 'अत्र' - प्रक्रमे आत्मदूषणा दोषाः, एते च स्वरूपतः कर्मोदयसञ्जनिता विज्ञेया आत्मपरिणामाः स्फटिकस्येव रागादय इति । तत्राभिष्वङ्गलक्षणो रागः, अप्रीतिलक्षणो द्वेषः, अज्ञानलक्षणो मोह इति एते चात्म - कर्मपरमाणुतत्स्वभावतया तत्त्वतो द्वन्द्वजा धर्माः । इति गाथार्थः ॥५३॥ कर्मोदयजनिता इत्युक्तम् अतः कर्मस्वरूपमाह ४७ कम्मं च चित्तपोग्गलरूवं जीवस्सऽणाइसंबद्धं । मिच्छत्तादिनिमित्तं णाएणमतीयकालसमं ॥५४॥ 'कर्म च' - ज्ञानावरणीयादि । किम् ? इत्याह-' चित्रपुद्गलरूपं' ज्ञानाद्यवबन्धकस्वभावविचित्रपरमाणुरूपं 'जीवस्य' - आत्मनः 'अनादिसम्बद्धं' -तत्तत्स्वभावतया प्रवाहतोऽनादिसङ्गतमित्यर्थः । एतच्च मिथ्यात्वाऽविरतिप्रमाद- कषाय-योगा बन्धहेतवः [ तत्त्वार्थ अ. ८ सू. १] इति वचनात्, 'न्यायेन' - नीत्या ' अतीतकालसमम्'- अतीतकालतुल्यम् । इति गाथार्थः ॥५४॥ तद्भावनायैवाह अणुभूयवत्तमाणो सव्वो वेसो पवाहओऽणादी । जह तह कम्मं णेंयं, कयकत्तं वत्तमाणसमं ॥५५ ॥ , 'अनुभूतवर्तमान: ' इति अनुभूतं प्राप्तं वर्तमानत्वं येन सः, तथा सर्वोऽपि 'एष:'-अतीतकालः प्रवाहतोऽनादिः कालशून्यलोकासम्भवात् 'यथा' इत्युदाहरणोपन्यासार्थः, तथा कर्म ज्ञेयमिति दान्तिकयोजना प्रवाहतोऽनादीत्यर्थः । भावार्थमाह- कृतकत्वं कर्मणो 'वर्तमानसमं' वर्तमानतुल्यम् । यथा हि यावानतीतः कालस्तेन सर्वेण वर्तमानत्वमनुभूतम् अथ च प्रवाहापेक्षयाऽनादिः, एवं यावत् किञ्चित् कर्म तत् सर्वं कृतकम् अथ च प्रवाहापेक्षयाऽनादि । इति गाथार्थः ॥५५ ।। इहैवाऽऽशङ्काशेषपरिजिहीर्षयाहमुत्तेणममुत्तिमओ उवघाया - ऽणुग्गहा वि जुज्जंति । जह विण्णाणस्स इहं मइरापाणोसहादीहिं ॥ ५६ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy