________________
योगशतक-सूत्र : ५०-५१-५२ प्रस्तुत एव योगाधिकारे विशेषमभिधातुमाह
घडमाण-पवत्तणं जोगीणं जोगसाहणोवाओ ।
एसो पहाणतरओ णवरं पवत्तस्स विण्णेओ ॥५१॥ 'घटमान-प्रवृत्तयोर्योगिनो:'-अपुनर्बन्धक-भिन्नग्रन्थिलक्षणयोः, निष्पन्नयोगिव्यवच्छेदार्थमेतत् । घटमांन-प्रवृत्तयोरेव योगिनो: योगसाधनोपायः 'एषः'-अनन्तरोदितो वक्ष्यमाणलक्षणश्च । निष्पन्नयोगस्य त्वन्यः, केवलिन: स्वाभाविक: शैलेशीपर्यन्तः । एवं 'सांसिद्धिको निष्पन्नयोगानामधिकारमात्रनिवृत्तिफलः' इत्येतदपि परोक्तमत्राविरुद्धमेव, अर्थतस्तुल्ययोग-क्षेमत्वात् । समुद्घातकरणशक्त्या हि कर्मवशितायां सत्यां तथादेशनादियोगः सं(सां)सिद्धिक ए(व) भगवत इति भावनीयम् । तथा 'एषः' वक्ष्यमाणलक्षण: प्रधानतरो नवरं प्रवृत्तस्य 'विज्ञेयः' ज्ञातव्यः तथातदधिकारस्वभावत्वात् । इति गाथार्थः ॥५१॥ एनमेवाभिधातुमाह
भावणसुयपाढो तित्थसवणमसतिं तयत्थजाणम्मि ।
तत्तो य आयपेहणमतिनिउणं दोसवेक्खाए ॥५२॥ .. 'भावनाश्रुतपाठ:'-रागादिप्रतिपक्षभावनं भावना, तत्प्रतिबद्धं श्रुतं भावनाश्रुतम्, रागादिनिमित्त-स्वरूप-फलप्रतिपादकमित्यर्थः, तस्य पाठःविधिनाऽध्ययनम्, अन्यथा त्वन्यायोपात्तार्थवत् ततः कल्याणाभावात् । एवं पाठे सति तीर्थे श्रवणम्, पाठाभावे तनिराकार्यक्लेशानपगमेन सम्यक्तदर्थज्ञानायोगात्, 'अपरिपाचितमलप्रेसनकल्पं ह्यपाठं श्रवणम्' इति वचनात् । तीर्थम्-अधिकृतश्रुतार्थोभयविद् अभ्यस्तभावनामार्ग आचार्यः, तस्मिन् श्रवणम्, अनीदृशात् तत्त्वतः संज्ञानासिद्धेः । एतच्च 'असकृत्'अनेकशः तीर्थश्रवणम्, कुज्ञानादाविह महाप्रत्यपायोपपत्तेः । एवं 'तदर्थज्ञाने सति'-भावनाश्रुतार्थज्ञाने सति किम् ? इत्याह-'ततश्च'-तदनन्तरं च 'आत्मप्रेक्षणम्'-आत्मनः प्रकर्षण ईक्षणं-निरूपणमित्यर्थः । कथम् ? इत्याह-'अतिनिपुणम्' इति स्वतः परत: स्वभावादिभिः । 'दोषापेक्षया'दूषयन्तीति दोषा:-रागादयः तदपेक्षया, "किमहं रागबहुलो मोहबहुलो द्वेषबहुल:' अ(इ)त्युत्कटदोषप्रतिपक्षभावनाभ्यासोपपत्तेः इति गाथार्थः ॥५२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org