________________
योगशतक-सूत्र : ४९-५० वाऽयोग्यत्वप्रसङ्गात्; तद्भेदस्य च नैश्चयिकस्यालौकिकत्वात् । लौकिकत्वेऽपि तथाविधयोग्यताभेदात्, तथाविधयोग्यतातुल्यं च कर्मणोऽनियतस्वभावत्वम् । किञ्च-कर्मापि पुरुषकाराक्षेपकं तत्स्वभावतयैव, एवमेव पुरुषस्य तदुपक्रामणस्वभावतायां को दोषः ? पारम्पर्यतस्तथाभावस्योभयत्र तुल्यत्वात् अत इह उभयतथाभावो न्याय्यः, कर्तृ-कर्मणोरुभयतथाभावतायां सर्वत्रेष्टफलसिद्धेः, अन्यथायोगादतिप्रसङ्गादिति । एवमुभयजेपि तत्त्वे तदुदग्रतादिरूपतत्प्राधान्यादिनिबन्धना कर्म-पुरुषकारव्यवस्थेति सूक्ष्मधियाऽऽलोचनीयम् । निर्लोठिंत चैतद् उपदेशमालादिष्विति नेह प्रयत्यते । इति गाथार्थः ॥४९॥ प्रस्तुतार्थसाधकमेव विधिमभिधातुमाह
चउसरणगमण दुक्कडगरहा सुकडाणुमोयणा चेव ।
एस गणो अणवरयं कायव्यो कुसलहेउ त्ति ॥५०॥ 'चतुःशरणगमनम्'-अर्हत्-सिद्ध-साधु-केवलिप्रज्ञप्तधर्मशरणगमनम्, आचार्योपाध्याययोः साधुष्वेवान्तर्भावात्, केवलिप्रज्ञप्तधर्मस्य चानादित्वेन पृथगुपादानात् । न ह्यतश्चतुष्टयादन्यच्छरण्यमस्ति, गुणाधिकस्य शरण्यत्वात्, गुणाधिकत्वेनैव ततो रक्षोपपत्तेः, रक्षा चेह तत्तत्स्वभावतया एवाभिध्यानत:क्लिष्टकर्मविगमेन शान्तिरिति । तथा 'दुष्कृतगर्हा'-अनादावपि संसारेऽनाभोगादिना प्रकारेण कायादिभिः करणभूतैः यानि दुष्कृतानि अर्हत्सिद्धादिसमक्षं संवेगापन्नेन चेतसा तेषां जुगुप्सेत्यर्थः । भवत्यतस्तद्धेयत्वभावनया अनुबन्धादिव्यवच्छेदः, शोभनश्चायं महानर्थनिवृत्तेरिति । तथा सुकृतानुमोदना चैव, सकलसत्त्वसङ्गतं मोक्षानुकूलं यदनुष्ठानं अनेकभेदभिन्नं तस्य महता पक्षपातेन स्वभावचिन्तासारा प्रशंसेति भावः, तदुपादेयतायां तद्बहुमानविशेषे नियोगत इयम्, नान्यथा । एवं च महदेतत् कल्याणाङ्गं वनच्छेत्तृ-बलदेवमृगोदाहरणेन सुप्रसिद्धमेवेति । 'एष गणः'-चतुःशरणगमनादिः सर्व एव 'अनवरतं' - प्रायः सर्वकालमेव 'कर्तव्यः' - अनुष्ठेयः, भावनीय इति यावत्, 'कुशलहेतुः'-अपायपरिहारेण कल्याणहेतुरिति कृत्वा । तथा च महती गम्भीरा चास्य कुशलहेतुता, भ(भा)वसारतया तत्त्वमार्गप्रवेशात् । परिभावनीयमेतदचिन्त्यचिन्तामणिकल्पं भावधर्मस्थानम् । इति गाथार्थः ॥५०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org