________________
योगशतक - सूत्र : ४७-४८-४९
-
पूर्ववत् तत्प्रत्यनीक एव । ' एतेऽपि ' - शरणादयः 'पापकर्मोपक्रमभेदा एव' भयमोहनीयादिपापकर्मोपक्रमविशेषा एव 'तत्त्वत:' परमार्थतः कारणे कार्योपचारात् । इति गाथार्थः ॥४७॥
एवं दृष्टान्तमभिधाय दान्तिकयोजनामाह
४४
I
सरणं गुरू उ इत्थं, किरिया उ तवो त्ति कम्मरोगंम्मि । मंतो पुण सज्झाओ मोहविसविणासणो पयडो ॥ ४८ ॥ शरणं गुरुरेव 'अत्र' कर्मभये । क्रिया तु 'तप इति' - तप एव षष्ठादि, क्व ? इत्याह- 'कर्मरोगे' कर्मव्याधौ । मन्त्रः पुनः 'स्वाध्यायः 'वाचनादिः, सामर्थ्याद् विषे । तथा चाह- 'मोहविषविनाशन: '-कर्मजनिताज्ञानविषविनाशनः ‘प्रकट:'-अनुभवसिद्धः । इति गाथार्थः ॥ ४८ ॥
[प्रक्रान्तासेवनाफलमाह ]
-
एएस जत्तकरणा तस्सोवक्कमणभावओ पायं । नो होइ पच्चवाओ, अवि य गुणो, एस परमत्थो ॥ ४९ ॥ 'एतेषु' - अधिकृतशरणादिषु यत्नकरणादाज्ञानुसारेण 'तस्य'- प्रक्रमादधिकृतारतिनिबन्धनस्य कर्मणः 'उपक्रमणभावतः ' -उपक्रमणस्वभावत्वात् 'प्रायः ' बाहुल्येन, निरुपक्रमाकुशलकर्मभावे तु प्रायो गुणस्थानाप्त्यभावाद्, न भवति प्रत्यपायोऽधिकृतारतिसमुत्थः, अपि च गुणस्तदन्योपक्रमणानुबन्धच्छेदादिना, एष परमार्थः, अन्यथा पुरुषकारवैयर्थ्यादिति ।
आह- पुरुषकारेण तपक्रम्यते, एवं च कृता (त) नाशाऽकृताभ्यागमप्रसङ्ग अन्यथा वेदनीयस्वभावस्यान्यथावेदनात्, तथावेदनीयस्वभावत्वे त्वस्य पुरुषकारवैयर्थ्ये तस्यैव तथास्वभावत्वेनास्य तेनैवाक्षेपादिति ।
उच्यते यत्किञ्चिदेतत्, अभिप्रायाऽपरिज्ञानात् । अनियतस्वभावं हि कर्म सोपक्रमम्, तदेव च पुरुषकारविषय इत्युक्तदोषाभावः । एतच्च दार्वादौ प्रतिमादियोग्यताकल्पम्, तथाप्रमाणोपपत्तेः । न हि योग्यान्नियमेन प्रतिमादि, न च तदभावे सति अयोग्यमेतत् तल्लक्षणविलक्षणत्वात् तथाप्रतीते: सकललोकप्रसिद्धत्वात् । प्रतिमादिकल्पश्च पुरुषकार इति भावनीयम् । न च दार्वेव प्रतिमाक्षेपकमिति न्याय्यम्, सर्वत्र तत्प्राप्तेः, योग्यस्यापि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org