________________
योगशतक-सूत्र : ४५-४६-४७ श्चप्राणिभिरात्मापेक्षया नित्यं संवासः । संवासो नाम औचित्येन तदुपजीवनादिर्निर्जराफलः । तथा तद्गुणस्थानोचितक्रियापालनास्मृतिसमायुक्तः'-अस्मिन् गुणस्थानके व्यवस्थितेनेदं चेदं च कर्तव्यमिति स्मृतिसमन्वागतस्तदेव कुर्यात् । इति गाथार्थः ॥४४॥
उत्तरंगुणबहुमाणो सम्मं भवरूवचिंतणं चित्तं ।
अरईए अहिगयगुणे तहा तहा जत्तकरणं तु ॥४५॥ उत्तरगुणबहुमानः, अधिकृतगुणस्थानकापेक्षया उत्तरगुणस्थानकगुणराग इत्यर्थः । तथा 'सम्यग्' वासितेनान्त:करणेन संवेगक्रियासारं भवरूपचिन्तनं' संसारस्वभावालोचनं 'चित्र'-नानाप्रकारं कर्तव्यम् । तद्यथा-"इह असारं जन्म, आश्रयो जरादीनाम्, व्याप्तं दु:खगणेन, चला विभूतयः, अनवस्थिताः स्नेहाः, दारुणं विषयविषम्, रौद्रः पापकर्मविपाकः पीडाकरोऽनुबन्धेन, मिथ्याविकल्पं सुखम्, सदा प्रवृत्तो मृत्युरिति, न धर्माद् ऋतेऽत्र किञ्चित् कर्तुं न्याय्यम् इत्येवमादि । तथा अरतौ चाधिकृतगुणविषयायां चित्रकर्मोदयेन, किम् ? इत्याह-'तथा तथा'-तेन तेन प्रकारेण भावशरणादिलक्षणेन 'यत्नकरणं तु'-यत्न एव कर्तव्यः । इति गाथार्थः ॥४६॥ . किमित्येतदेवम् ? इत्याह
अकुसलकम्मोदयपुव्वरूवमेसा जओ समक्खाया ।
सो पुण उवायसज्झो पाएण भयाइसु पसिद्धो ॥४६॥ अकुशलकर्मोदयपूर्वरूपम् ‘एषा'-अरतिरधिकृतगुणे यतः समाख्याता भगवद्भिः । यदि नामैवं ततः किम् ? इत्याह-स पुन:'-अकुशलकर्मोदय: उपायसाध्यः प्रायेण 'भयादिषु' भय-रोग-विषेषु प्रसिद्धः । इति गाथार्थः ॥४६॥ एतदेवाह- .
सरणं भए उवाओ, रोगे किरिया, विसम्मि मंतो त्ति ।
एए वि पावकम्मोवक्कमभेया उ तत्तेणं ॥४७॥ 'शरणं' -पुरस्थानादि 'भये'-अन्यसमुत्थपीडारूपे 'उपाय:'-प्रक्रमात् तत्प्रत्यनीकः । तथा 'रोगे'-व्याधौ चिरकुष्ठादौ 'क्रिया'-चिकित्सोपायः । तथा 'विषे' -स्थावर-जङ्गमरूपे 'मन्त्रः'-देवताधिष्ठितोऽक्षरन्यासः । इत्युपाय:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org