________________
योगशतक-सूत्र : ४०-४१-४२ दिभेदेन तत्तद्गुणस्थानापेक्षयेत्येवं निजस्वभावालोचनजनवादावगमयोरपि शुद्धि: स्वबुद्ध्या द्रष्टव्या इति गाथार्थः ॥४०॥ इहैव मतान्तरमभिधातुमाह
सुहसंठाणा अण्णे कायं, वायं च सुहसरेणं तु ।
सुहसुविणेहिं च मणं, जाणेजा साहु सुद्धि त्ति ॥४१॥ 'शुभसंस्थानात्' उन्मान-मान-गति-सारादिशुद्धात्, पुरुषलक्षणोपलक्षणमेतत्, 'अन्ये'-तन्त्रान्तरीया एवं मन्यन्ते, कायं तद्योगोचितं जानीयादिति योगः । तथा वाचं च 'शुभस्वरेण' गम्भीर-मधुराऽऽज्ञापकादिभेदभिन्नेन तद्योगोचितां जानीयात् । तथा 'शुभस्वप्नैश्च' शुक्लस्वप्नरूपैः समुद्रनदीहुदप्रतरणादिभिः सन्ततेतरादिभेदभिन्नैर्मनो जानीयात् । तत्तद्योगौचित्यमङ्गीकृत्येति प्रक्रमः । 'साधु शुद्धिरिति' शोभनव योगशुद्धिः । इति गाथार्थः ॥४१॥
एतदपि तन्त्रान्तरीयमतं साध्वेव, न हमहापुरुषा योगिनो भवन्ति, योगस्य भावैश्वर्यादेरमहापुरुषाभावतोऽस्य गुरुतरत्वोपपत्तेः, दृश्यन्ते चैवंविधानामेव महापुरुषाणां तदितरमहापुरुषेभ्यो भावसारमनिन्दितप्रतिपत्त्यादीनि । कृतं प्रसङ्गेन । एवं तावदोघत एवौचित्यगतमिह विधिमभिधाय अत्रैव प्रतिपत्तिगतमभिधित्सुराह
एत्थ उवाओ य इमो सुहदव्वाइसमवायमासज ।
पडिवजइ गुणठाणं सुगुरुसमीवम्मि विहिणा तु ॥४२॥ 'अत्र'-औचित्ये सत्यधिकस्थानप्रतिपत्तौ 'उपायश्चायं' साधनप्रकारविशेषः, यदुत शुभं द्रव्यादिसमुदायं-द्रव्य-क्षेत्र-काल-भावसंयोग 'आश्रित्यं' अधिकृत्य प्रतिपद्यते 'गुणस्थानं'-देशसामायिकादि । क्व ? इत्याह'सुगुरुसमीपे' तदधिकगुणोपेतविधिज्ञमहापुरुषगुरुसकाशे, प्रायशो भावाद् भावप्रसूतिः, क्वचित् केवलादप्याज्ञाराधनाद् आज्ञासमये कर्मवैचित्र्याद् अङ्गारमर्दककुगुरुशिष्यन्यायेन, अत: सुगुरुसमीपे प्रतिपद्यते इत्ययमुपायः । तथा 'विधिना' तत्रापि वन्दनशुद्ध्यादिलक्षणेन । न हि सुगुरोरविधिरिति विधिसिद्धावपि विधिग्रहणं प्राधान्यख्यापनार्थमदुष्टम् । इति गाथार्थः ॥४२॥
अत एव विशेषतो विधिमभिधातुमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org