SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ योगशतक - सूत्र : ३८-३९-४० 'एतस्मिन्' उपदेशे परिणते भावप्रतिपत्तिद्वारेण । किम् ? इत्याहप्रवर्तमानस्य सतः । क्व ? इत्याह- ' अधिकस्थानेषु' - औचित्यापेक्षया तदुत्तरोत्तरगुणरूपेषु । किम् इत्याह - ' एष विधिः' वक्ष्यमाणलक्षणः 'अतिनिपुणम्' क्रियाविशेषणमेतत् । 'प्राय: ' - बाहुल्येन, अपुनर्बन्धकादिव्यवच्छेदार्थमेतत्, अणुव्रतादेरारभ्येति भावः । ' साधारण:'- सामान्यो ज्ञेयः 'अतिनिपुणं' प्रारब्धसिद्ध्यङ्गतया, विपर्यये विपर्ययभावात् । इति गाथार्थः ॥३८॥ ४० किंविशिष्टोऽयं विधिः ? इत्याह निययसहावालोयण - जणवायावगम- जोगसुद्धीहिं । उचियत्तं णाऊणं निमित्तओ सइ पयट्टेज्जा ॥३९॥ 'निजस्वभावालोचन - जनवादावगम - योगशुद्धिभिः '- करणभूताभिः उचितत्वं ज्ञात्वा तत्तद्गुणस्थानकापेक्षया आत्मनस्तत: 'निमित्तत: '- निमित्तात् कायिकादेः देः सदा प्रवर्तेत तस्मिंस्तस्मिन् गुणस्थानके इति । तत्र निजस्वभावालोचनम्-'कीदृशो मम स्वभावः ? केन गुणस्थानकेन संवादी विसंवादी वा ?' इत्येवंरूपम्, न हि तत्स्वभावानानुगुण्ये तदङ्गीकरणं श्रेयः, तत्सिद्ध्यसम्भवाद् विडम्बनामात्रत्वात् । तथा जनवादावगम:-'किं जनो मम वति । किं नु गुणस्थानकमङ्गीकृत्य योग्यतां सम्भावयति ?' तत्रैव प्रवृत्तिन्याय्या, नेतरत्र, अस्य माननीयत्वात् । तथा योगशुद्धिः काय-मनोवाग्व्यापारशुद्धिः, "कीदृशा मम योगाः ? कस्य गुणस्थानकस्य साधकाः ?' न ह्येतत्प्रतिकूलमपि सर्वथा गुणस्थानकं प्रतिपत्तुं न्याय्यम्, “उपहास्यप्रायमेतद् अनिष्टफलं च" इत्याचार्याः । अत एभिर्निजस्वभावालोचनादिभिः उचितत्वं ज्ञात्वा निमित्ततः सदा प्रवर्तेत । इति गाथार्थः ॥ ३९ ॥ तत्र योगशुद्धिमधिकृत्याह गमणाइएहिं कायं णिरवज्जेहिं, वयं च भणिएहिं । सुहचिंतणेहि य मणं, सोहेज्जा जोगसुद्धि त्ति ॥४०॥ 'गमनादिभिः' गमना-ऽऽसन - स्थानैः 'कायं'- देहम्, किम्भूतैः ? इत्याह-'निरवद्यैः '- अपापैः वाचं च भणितैर्निरवद्यैरेव । 'शुभचिन्तनैश्च' धर्माऽविरोधिभिः साधकैर्वा मनः शोधयेत् । एषा योगशुद्धिः । तथा मध्यमा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy