________________
योगशतक-सूत्र : ३५३६-३७-३८
____३९ उवएसोऽविसयम्मी विसए वि अणीइसो अणुवएसो ।
बंधनिमित्तं णियमा जहोइओ पुण भवे जोगो ॥३६॥ 'उपदेश:'-अनन्तरोदितः सामान्येन वा 'अविषये' अपुनर्बन्धकादित्रयादन्यत्र संसाराभिनन्दिनि 'अनुपदेश' इति सम्बन्धः, तत्त्वावबोधादिकाकिरणाद् विपर्ययसाधनाच्चेति । उक्तं च -
अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे ॥ [लोकतत्त्व-१]
इत्यनुपदेशः । तथा 'विषयेऽपि' अपुनर्बन्धकादौ 'अनीदृशः'उक्तविपरीत: क्षयोपशमानुगुण्याभावेन 'अनुपदेशः', पुरुषमात्रापुरुषवद् विशिष्टस्वकार्याकरणात् । अयं चैवम्भूत उपदेशोऽनुपदेशः । किम् ? इत्याह-बन्धनिमित्तं नियमात् श्रोत्रऽनिष्टापादनाद् आज्ञाविराधनाच्च, अत इत्थं न कार्यः । 'यथोदितः पुनः' आज्ञापरिशुद्ध्या भवति योगः, मोक्षण योजनात् । इति गाथार्थः ॥३६॥ एवं सामान्येन उपदेशानुपदेशे प्रयोजनमभिधाय प्रत्यपायपरिजिहीर्षया विशेषतोऽभिधित्सुराह
. गुरुणो अजोगिजोगो अच्चंतविवागदारुणो णेओ । ... जोगीगुणहीलणा णट्ठणासणा धम्मलाघवओ ॥३७॥
'गुरोः'-आचार्यस्य योगिन इत्यर्थः, 'अयोगियोगः'-अयोगिव्यापारो विपरीतोपदेशादिः अत्यन्तविपाकदारुणो ज्ञेयः- अतिशयेन दारुण इत्यर्थः । कुतः ? इत्याह-योगिगुणहीलनात् कारणात् । एवं हि विडम्बकप्रतिपत्तिन्यायेन तद्गुणा हीलिता भवन्ति । "उत्तमपदस्थस्य तद्धर्माननुपालनमघोषणा विडम्बना" इति वृद्धाः । तथा 'नष्टनाशनात्'-नष्टा एते प्राणिनोऽयोग्यतया विपरीतोपदेशेन नाशिता भवन्ति । तथा 'धर्मलाघवात्' हेतोः विपरीतोपदेशाद्धि तत्त्वाऽप्रतिपत्त्या वितथासेवनेन धर्मलाघवम् । इति गाथार्थः ॥३७॥
एवं सप्रसङ्गमुपदेशविधिमभिधाय एतत्परिणत्युत्तरकालं यत् कार्य तद्गतं विधिमभिधातुमाह
एयम्मि परिणयम्मी पवत्तमाणस्स अहिगठाणेसु । एस विही अइणिउणं पायं साहारणो णेओ ॥३८॥
प
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org