________________
३७
योगशतक-सूत्र :३१-३२ प्रशस्तभावगतेन । एवं चास्ति गृहिणोऽपि योगसम्भव इति । उक्तं च
"योजनाद् योग इत्युक्तो मोक्षेण मुनिसत्तमैः। स निवृत्ताधिकारायां प्रकृतौ लेशतो ध्रुवः ॥ वेलावलनवनद्यास्तदापूरोपसंहृतेः। प्रतिस्रोतोऽनुगत्वेन प्रत्यहं वृद्धि सङ्गतः ॥ भिन्नग्रन्थेस्तु यत् प्रायो मोक्षे चित्तं, भवे तनुः । तस्य तत् सर्व एवेह योगो योगो हि भावतः ॥ नार्या यथाऽन्यसक्तायाः तत्र भावे सदा स्थिते । तद्योगः पापबन्धश्च तथा मोक्षेऽस्य दृश्यताम् ॥ न चेह ग्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाऽऽकुलस्यापि तत्र चित्तं न जायते ॥"
[योगबिन्दु-२०१-५] "सांसिद्धिकमनुष्ठानमत एव सतां मतम् । भावाढ्यं स्तोकमप्येतत् प्रतिबन्धविशेषतः ॥ अस्यापि तत्त्वतः सर्वमेतदेवंविधं यतः । नित्यकर्मनियोगेन ततो योग इति स्थितम् ॥"
इति गाथार्थः ॥३१॥ अपान्तरालाधिकारोपसंहारमाहएमाइवत्थुविसओ गिहीण उवएस मो मुणेयव्यो ।
जइणो उण उवएसो सामायारी जहा सव्वा ॥३२॥ - एवमादिवस्तुविषयः, आदिशब्दात् तत्प्रकृत्यपेक्षया अन्योऽपि व्रतसम्भवादिसूक्ष्मपदार्थालम्बनो गृह्यते । 'गृहिणां'-श्रावकाणामुपदेशो मन्तव्यः, उक्तहेतुभ्योऽस्य साफल्योपपत्तेः । अधुना सर्वचारित्रिणमधिकृत्याह-'यते: पुन:'-प्रव्रजितस्य पुनः भावत उपदेशः कः ? इत्याह-'सामाचारी'शिष्टाचरितक्रियाकलापरूपा भवति सर्वा 'यथाकर्मक्षयोपशमयोग्यतापेक्षया । इति गाथार्थः ॥३२॥ एनामधिकृत्याह
१. इदं पद्यपञ्चकं गोपेन्द्रयोगशास्त्रगतमिति श्रीहरिभद्रपादैर्योगविन्दावुलम् २. 'संयुतः' योगबिन्दौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org