________________
योगशतक-सूत्र : ३०-३१ नित्यमेतद् गृहिण इति ज्ञापनार्थमेतत् । तथा 'जिनपूजा-भोजनविधिः' जिनपूजाविधि: भोजनविधिश्च, तद्यथा-"द्रव्य-भावशुचित्वम्, कालांभिग्रहः, सन्माल्यादीनि, व्यूहे प्रयत्नः, कण्ड्वाद्यतिसहनम्, तदेकाग्रता, सत्स्तवपाठः, विधिवन्दनम्, कुशलप्रणिधानमिति । तथा-उचितदानक्रियाभावे नियोगः, कीटिकाज्ञातम्, परिग्रहेक्षा, औचित्येन वर्तनम्, स्थानोपवेश:, नियमे स्मृतिः, अधिकक्रिया, व्रणलेपवद् भोगाः" इति । तथा 'सन्ध्यानियमश्च'चैत्यगृहगमनादि: 'योगान्त:'-चित्रभावनावसानः । इति गाथार्थः ॥३०॥ न गृहिणो योगसम्भव: इत्याशङ्कापोहायाह
चिइवंदण जइविस्सामणा य सवणं च धम्मविसयं ति । . गिहिणो इमो वि जोगो, किं पुण जो भावणामग्गो? ॥३१॥
'चैत्यवन्दनं'-"भुवनगुरुरयं वन्दनीयः सताम्, एतदेव सत् तत्त्वम्, सैषा गुणज्ञता, महाकल्याणमेतत्, दुःखाचलवज्रम्, सुखकल्पपादपः, जीवनलोक सारः, दुर्लभानां शेखरः एतच्चै त्यवन्दम्" इति समुल्लसदसमसम्मदामोदम् । तथा 'यतिविश्रामणा च'-'चारित्रिण एते एतदुद्यता इति नातः परं कृत्यम्, प्रकर्षोऽयं गुणानाम्, रक्ष्य एष काय आत्मनो नियोगेन, तदुत्सर्पणोऽयम्, बीजमेतद् भावस्य, महावीर्यमेतत्, उचिता विश्रामणा' इति महाविवेकसारसंवेगसारता । तथा 'श्रवणं धर्मविषयमिति'-'उत्तमः श्रुतधर्मः, मोहतमोरविः, पापवध्यपटहः, प्रकर्षः श्रव्याणाम्, सेतुः सुरलोकस्य, भावामृतमयम्, देशकः शिवगतः, जिनभावबीजम्, अभिव्यक्तो जिनेन, नातः परं कल्याणम्' इति । विशिष्टशुश्रूषया 'गृहिणः'-श्रावकस्य 'एषोऽपि अनन्तरोदितव्यापारः 'योगः'-अन्वर्थयोगाद् मोक्षण योजनात् । किं पुनर्यो भावनामार्गः ? स बन्धुः परमध्यानस्य, स योग एव, अनुष्ठेयश्चायं श्रावकेण, तथा पुण्यदेशे सङ्क्लेशविघाताय पद्मासनादिना गुरुप्रणामपूर्वमर्थसन्तानेन'असारो जीवलोक इन्द्रजालतुल्यः, विषकल्पा विषयाः, वज्रसारं दुःखम्, चला: प्रियसङ्गमाः, अस्थिरा सम्पत्, दारुणः प्रमादः, महादौर्गत्यहेतुः, दुर्लभं मानुष्यं महाधर्मसाधनम् इति अलं ममान्येन, करोम्यत्र यत्नम्, न युक्ता(ऽत्रो)पेक्षा, प्रभवति मृत्युः, दुर्लभं दर्शनं सद्गुरुयोगश्च'-इति
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org