SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ योगशतक-सूत्र : २८-२९-३० 'तस्य'-श्रावकधर्मस्य 'आसन्नत्वाद्'-गुणस्थानकक्रमेण भावप्रतिपत्तिं प्रति प्रत्यासन्नः, यथोक्तम्-“सम्मत्तम्मि उ लद्धे पलियपुहत्तेण" [विशेषा.१२२२] इत्यादि, अत एव कारणात् 'तस्मिन्'-श्रावकधर्मे 'दृढम्'-अत्यर्थं 'पक्षपातयोगात्' आसन्ने हि भावतस्तत्सद्भावसम्भवेन पक्षपातभावात् । अत एव कारणात् 'शीघ्रं' तूर्णं 'परिणामात्'-क्रियया परिणमनात्, तत्पक्षपाते तद्भावापत्तिरिति कृत्वा । तथा 'सम्यग्'-यथासूत्रं 'परिपालनातश्च' परिणतिगुणेनेति । सुप्रसिद्धत्वं चाऽऽदौ साधुधर्मोपदेशस्याणुव्रतादिप्रदानकालविषयम्, अन्यथोक्तविपर्यये दोषः । इति गाथार्थः ॥२८॥ तइयस्स पुण विचित्तो तहुत्तरसुजोगसाहगो णेओ । सामाइयाइविसओ णयणिउणं भावसारो त्ति ॥२९॥ 'तृतीयस्य पुनः'-उपन्यासक्रमप्रामाण्यादेव चारित्रिणः, प्रक्रमाद् देशचारित्रिणः श्रावकस्य 'विचित्र:'-नानाप्रकार: 'तदपान्तरालभूमिकापेक्षया 'तथा'-तेन प्रकारेण उत्तरसुर्योगसाधको ज्ञेय उपदेशः । उत्तराः सुयोगाः तद्भूमिकानुक्रमागता एव प्रतिमानुरूपेण । साध्यमाह-'सामायिकादिविषयः' अर्थनीत्या सामायिकच्छेदोपस्थाप्यादिगोचरः "प्रासादविषयः तन्मूलपादशोधनादि" न्यायेन । कथं दातव्योऽयमुपदेशः ? इत्याह-"णयणिपुणं" इति क्रियाविशेषणम्, सद्भावानयनहेतुराक्षेपणादिरूपः प्रकार इह नयः, तनिपुणम्, 'भावसार:'-स्वतो वासितेनान्त:करणेन संवेगसारः, प्रायशो भावाद् भावप्रसूते: । इति गाथार्थः ॥२९॥ एतदुपदर्शनायाऽऽह सद्धम्माणुवरोहा वित्ती दाणं च तेण सुविसुद्धं । . जिणपुय-भोयणविही संझाणियमो य जोगंतो ॥३०॥ सद्धर्मानुपरोधाद् भूमिकौचित्येन, तद्यथा-अणुव्रतधरस्य तावत् कर्मादानत्यागेन 'वृत्तिः'-वर्तनमित्यर्थः । दानं च 'तेन सुविशुद्धं'-सद्धर्मेणैव शक्तित: श्रद्धासत्कार-काल-मतिविशेषाकामादिविषयैणवृत्यनत्यनन्तरं (?) १. कापेक्षाया प्रतौ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy