SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३४ योगशतक-सूत्र : २५-२६-२७ एवं चिय अवयारो जायइ मग्गम्मि हंदि एयस्स । रणे पहपब्भट्ठोऽवट्टाए वट्टमोयरइ ॥२६॥ "एवमेव'-उक्तेनैव प्रकारेण अवतारो जायते 'मार्गे'-सम्यग्दर्शनादिलक्षणे । 'हन्दि' इत्युपप्रदर्शने । 'एतस्य'-अपुनर्बन्धकस्य, विक्षेपाभावाद् गुणमात्ररागभावाद् विशिष्टबुद्ध्यभावाच्चेति । अत्रैव निदर्शनमाह-'अरण्ये' कान्तारे पथप्रभ्रष्ट:-' मार्गच्युतः अवर्तन्या व्यवहारतः वर्तनीमवतरति व्यवहारतः एव, निश्चयतस्तु साऽपि वर्तन्येव, तया तथा तदवतरणात् । अत एवोक्तम्-"आभिप्रायिकी योगिनां धर्मदेशना, उपेयसाधनत्वे उपायस्य तत्त्वात्" । तथा-"अचर्यैव चर्या बोधिसत्त्वानाम्, लक्षवेधिनोऽवन्ध्यचेष्टा ह्येते". । एवं च १"सर्वदेवान् नमस्यन्ति नैकं देवं समाश्रिताः । जितेन्द्रिया जितक्रोधा 'दुर्गाण्यपि तरन्ति ते ॥ [योगबिन्दु-११८]" एवमाद्यपि वीतरागे नमस्करणं प्रत्यप्रवृत्तस्य प्रवर्तकत्वात् चारिचरकसञ्जीवन्यचरकचारणन्यायेनादुष्टमेव । इति गाथार्थः ॥२६॥ बीयस्स उ लोगुत्तरधम्मम्मि अणुव्वयाइ अहिगिच्चि । परिसुद्धाणायोगा तस्स तहाभावमासज ॥२७॥ "द्वितीयस्य पुनः' उपन्यासक्रमप्रामाण्यात् सम्यग्दृष्टे: 'लोकोत्तरधर्मे'लोकोत्तरधर्मविषयः 'अणुव्रताद्यधिकृत्य'-अणुव्रत-गुणव्रत-शिक्षापदान्याश्रित्य, उपदेशो दातव्य इति वर्तते । कथम् ? इत्याह-'परिशुद्धाज्ञायोगात्'त्रिकोटिपरिशुद्धाज्ञानुसारेणेति भावः तस्य'-श्रोतुः 'तथाभावमासाद्य'-अभिप्रायं ज्ञात्वा यद् यत् परिणमति । इति गाथार्थः ॥२७॥ अथ किमर्थं सुप्रसिद्धमादौ साधुधर्मोपदेशमुल्लङ्ध्यास्य श्रावकधर्मोपदेशः ? इत्याह तस्साऽसण्णत्तणओ तम्मि दढं पक्खवायजोगाओ । सिग्धं परिणामाओ सम्मं परिपालणाओ य ॥२८॥ १. सर्वान् देवान् इति योगबिन्दौ ॥ २. 'ण्यतितर' योगबिन्दौ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy