SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ योगशतक-सूत्र : २२-२३-२४-२५ एएसि पि य पायं बज्झाणायोगओ उ उचियम्मि । अणुठाणम्मि पवित्ती जायइ तहसुपरिसुद्ध त्ति ॥२३॥ 'एतेषामपि च' अपनुबन्धकादीनां तथाविधकर्मपरिणतिसमन्वितानामपि 'प्राय:'-बाहुल्येन ‘बाह्याज्ञायोगत एव'-जिनवचनोपदेशलक्षणाद् 'उचिते' तीव्रभावेन पापाकरणादौ अनुष्ठाने प्रवृत्तिर्जायते चित्राऽनाभोगनिवृत्त्या तथा सुपरिशुद्धा दायेन भगवद्बहुमानतः । इति गाथार्थः ।।२३॥ यत एवमतः किम् ? इत्याह गुरुणा लिंगेहिं तओ एएसिं भूमिगं मुणेऊण । उवएसो दायव्वो जहोचियं ओसहाऽऽहरणा ॥२४॥ 'गुरुणा'-अन्वर्थव्यवस्थितशब्दार्थेन, गृणाति शास्त्रार्थमिति गुरुरित्यन्वर्थः । 'लिङ्गः'-प्रागुपदिष्टैः तीव्रभावेन पापाकरणादिभिः । ततः-तस्मात् कारणात् यस्मादनन्तरोदितगाथोक्तं तथेति । 'एतेषाम्'-अपुनर्बन्धकादीनां 'भूमिका'-तत्तद्धर्मस्थानयोग्यतारूपां मत्वा, किम् ? इत्याह-उपदेशो दातव्यः, प्रक्रमात् धर्मविषयः । कथम् ? इत्याह-'यथोचतिम्' इति क्रियाविशेषणम् औचित्यापेक्षया । 'औषधोदाहरणात्' इति औषधोदाहरणेन यथेदं सदपि व्याध्याद्यपेक्षया मात्रादिना च दीयते, ततोऽन्यथा दोषभावात् । इति गाथार्थः ॥२४॥ साम्प्रतं यथा दातव्यस्तथा लेशत आह पढमस्स लोगधम्मे परपीडावजणाइ ओहेणं । गुरु-देवा-ऽतिहिपूयाइ दीणदाणाइ अहिगिच्च ॥२५॥ ___ 'प्रथमस्य'-अपुनर्बन्धकस्य 'लोकधर्मे'-लोकधर्मविषयः परपीडावर्जनाद्यधिकृत्येति योगः । परपीडा न कर्तव्या सत्यं वक्तव्यमित्यादि 'ओघेन'-सामान्येन, न विक्षेपणि(?णी)कथाविशेषेण । तथा गुरु-देवाऽतिथिपूजाद्यधिकृत्य । तद्यथा-गुरुपूजा कर्तव्या, देवपूजा कर्तव्या, अतिथिपूजा कर्तव्या, आदिशब्दात् सत्कार-सम्मानपरिग्रहः । तथा दीनदानादि चाधिकृत्योपदेशो दातव्यः-दीनेभ्यो देयम्, तपस्विभ्यो देयम्, आदिशब्दाद् रात्रिभोजनादि परिहर्तव्यम् । इति गाथार्थः ॥२५॥ किमित्येतदेवम् ? इत्याह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy