________________
योगशतक-सूत्र : २०-२१-२२ "दुःखेष्वनुद्विग्रमनाः सुखेषु विगतस्पृहः । वीतलोभ-भय-क्रोधः स्थिरधीर्मुनिरुच्यते ॥"
- [भगवद्गीता-५६] "मोक्षे भवे च सर्वत्र निस्पृहोऽयं सदाशयः । प्रकृत्यभ्यासयोगेन तथाशुद्धेर्नियोगतः ॥" . मोहादिच्छा स्पृहा चेयममोहश्च मुनि य॑तः । तत्रास्येयं क्वचिन्याय्या तत्प्राप्तिस्तु क्रियाफलम् ॥"
। इति गाथार्थः ॥२०॥ एवमेतानभिधाय सर्वेष्वेवैतेषु प्रकृतयोजनामाह
एएसिं णियणियभूमियाए उचियं जमेत्थऽणुठाणं ।
आणामयसंयुत्तं तं सव्वं चेव योगो त्ति ॥२१॥ . "एतेषाम्"-अपुनर्बन्धकादीनां वीतरागान्तानां 'निजनिजभूमिकाया:'तथाविधदशाया उचितं यदत्रानुष्ठानं तीव्रभावे पापाकरणादिवीतरागकल्पान्तम् । किंविशिष्टम् ? इत्याह-आज्ञामृतसंयुक्तम्, तथाविधकर्मपरिणतेरेव भावतस्तत्सिद्धेः । “तथाविधकर्मपरिणतिरेवाज्ञामृतसंयोगोऽन्तरङ्गमङ्गम्, बाह्याज्ञायोगस्यापि तनिबन्धनत्वात्" इति विद्वत्प्रवादः । ततः किम् ? इत्यत आह तदनुष्ठानं सर्वमेव परमार्थमधिकृत्य योग: । इति गाथार्थः ॥२१॥ एतत्प्रकटनायैवाह
तल्लखणयोगाओ उ चित्तवित्तीणिरोहओ चेव ।
तह कुसलपवित्तीए मोक्खेण उ जोयणाओ त्ति ॥२२॥ 'तल्लक्षणयोगादेव'-उचितानुष्ठानत्वेन योगलक्षणयोगादेव, "सर्वत्रोचितानुष्ठानं योगः" इति तल्लक्षणोपपत्तेः । तथा चित्तवृत्तिनिरोधतश्चैव सर्वत्र यथासम्भवम्, योगलक्षणं चैतन्मुख्यम्, 'योगश्चित्तवृत्तिनिरोधः' इति वचनात् । उभयत्रान्वर्थयोजनयोपसंहारः । तथा कुशलप्रवृत्त्या' तेन प्रकारेण कुशलप्रवृत्त्या हेतुभूतया मोक्षेण सह योजनात् कारणात् । अत एव प्रवृत्तिनिमित्ताद् योगः । इति गाथार्थः ॥२२॥
यद्यप्येतदेवं क्वचित् तथाप्येतानेवाधिकृत्य प्रायोगतं विधिमभिधातुमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org