________________
योगशतक-सूत्र : १८-१९-२०
इत्यत्राह
किरिया उ दंडजोगेण चक्कभमणं व होइ एयस्स ।
आणाजोगा पुव्वाणुवेहओ चेव णवरं ति ॥१९॥ क्रिया पुनः क्वचिद् भिक्षाटनादौ प्रवृत्तिरूपा दण्डयोगेन चक्रभ्रमणवद् भवति 'एतस्य' सामायिकवतः आज्ञायोगात्, यथेह चक्रमचेतनत्वाद् रागद्वेषरहितं भ्रमणा-ऽभ्रमणयोस्तुल्यवृत्ति दण्डयोगाद् भ्रमति एवमयं सामायिकवांस्तथाक्लिष्टकर्मविगमाद् विशुद्धभावयोगेन भिक्षाटना-ऽनटनयोः समवृत्तिरेवाज्ञायोगादटतीति हृदयम् । 'प्रवृत्तावाज्ञायोगेन तथाक्रियायामपि तद्योगे तु द्रव्यत्वप्रसङ्गात्, एकदोपयोगद्वयाभावात्, वीतरागस्य वा तद्योगात् क्षायिकज्ञानोपपत्तेः, आज्ञायोगस्य च क्षायोपशमिकत्वाद् न युक्तिमदटनादीति विभ्रमापोहायोपचयमाह-'पूर्वानुवेधतश्चैव'-दण्डयोगाभावेऽपि तत्सामर्थ्यविशेषतश्चक्रभ्रमणवदेवाऽऽज्ञायोगाभावेऽपि तत्पूर्वानुवेधत एवाटनादि नवरमिति, एवं न कश्चिद् दोषः । इति गाथार्थः ॥१९ ।। यत एतदेवं अत एव मुनिरेवंविध उक्त इत्याह
वासी-चंदणकप्पो समसुहदुक्खो मुणी समक्खाओ । . भव-मोक्खापडिबद्धो अओ य पाएण सत्थेसु ॥२०॥ ___ वासी-चन्दनकल्प:' मध्यस्थः । “एकान्तसत्त्वहितः" इत्यन्ये, बाह्यापेक्षमेतत् । तथा समसुख-दुःखः, माध्यस्थ्येनोपयोगात्, सर्वत्र रागद्वेषजयात्, आन्तरापेक्षमेतत् । मुनिः समाख्यातः एवम्भूतः । तथा भवमोक्षाप्रतिबद्धः, इच्छाऽभावात्, "केवलित्वात्" इत्यन्ये । अत एव कारणाद् यथोक्तसामायिकयोंगेन 'प्रायः' बाहुल्येन 'शास्त्रेषु' षष्टितन्त्रादिषु । तथा चोक्तम्
औदासीन्यं तु सर्वत्र त्याज्योपादानहानितः । वासी-चन्दनकल्पानां वैराग्यं नाम कथ्यते ॥"
तथा
"वासी-चन्दनकल्पत्वं या कल्याणैकशीलता । चन्दनच्छेददृष्टान्तात् सद्धर्मातिशयान्मुने ! ॥"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org