________________
३०
योगशतक-सूत्र : १७-१८ किम् ? इत्याह- 'सामायिकं'-समभावलक्षणं तात्त्विकम् 'अशुद्धं'क्षयोपशमवैचित्र्यान्मलिनम् । 'शुद्ध'-निर्मलं यथावस्थितं समतया'-मध्यस्थतया 'द्वयोरपि' विहित-प्रतिषिद्धयोः समतृणमणि-मुक्ता-लेष्ठु-काञ्चनसमशत्रुमित्रभावरूपत्वादस्य । इति गाथार्थः ॥१७॥ यथैतदेवं भवति तथाऽभिधातुमाह
एयं विसेसणाणा आवरणावगमभेयओ चेव । .
इय दठ्ठव्वं पढमं भूसणठाणाइपत्तिसमं ॥१८॥ 'एतत्' शुद्धं सामायिकं विशेषज्ञानात्' तात्त्विकाद् हेयोपादेयविषयाद् अहिदष्टाङ्गच्छेदाधुदाहरणतोऽभिष्वङ्गविषत्यागसंवेदनादिगर्भाद् विहितमिति, एकान्तानभिष्वङ्गानुष्ठानं क्रियमाणं श्रेयः, “तत्त्वाभिष्वङ्गस्यापि तत्त्वतोऽतत्त्वत्वाद् वस्त्रादिशुद्धिविधावञ्जनकल्पत्वाद् धर्मरागादपि मुनिर मुनिः" इत्यन्यैरप्यभिधानात् । अनेन रूपेण तत्कात्या॑नाराधनात्, भगवति गौतमप्रतिबन्धो ज्ञातमप्यत्रेति, एवमादेर्विशिष्टश्रुतसमुत्थात् । एतच्चे प्राय: सर्वेषां चतुर्दशपूर्वधरादीनामित्यत आह-आवरणापगमभेदतश्चैव, चारित्रमोहनीयावरणापगमविशेषाच्चेति भावः । किम् ? इत्याह-'इति द्रष्टव्यम्' एतत् सामायिकं शुद्धमेवं द्रष्टव्यम्, परमार्थत उभयभाववृद्ध्या तात्त्विकमिति । यद्येवं माषतुषादीनामादौ कथमेतत् ? इत्याह-'प्रथम' सामायिकं छेदोपस्थाप्यादिकण्डकाधोवर्ति । किम् ? इत्याह- भूषणस्थानादिप्राप्तिसमं' रत्नालङ्कारकरण्डकप्राप्तितुल्यम्, आदिशब्दाद् हिरण्य-वसनादिप्राप्तिपरिग्रहः । अत्र हि न किञ्चित् तत्तदन्तर्यत्नावाप्तमोघेन, अथ च कालान्तरेणोपायत: तद्विशेषावाप्तिः। एवमोघतोऽपि सामायिकावाप्तौ विशिष्टक्षयोपशमभावतस्तथाऽवन्ध्यबीजभावत्वेन कालोपायान्तरापेक्षायामपि तत्त्वतस्तद्भेदावाप्तिसिद्धिः, अन्यथा सामायिकसामग्रयाऽयोगात्, सर्वथा सर्वभावसमतायां आदित एव वीतरागत्वप्राप्तेः कर्मणस्तत्र परमार्थतोऽकिञ्चित्करत्वात्, किञ्चित्करत्वे तु नोक्तन्यायातिरेकेण समग्रताऽस्येति परिभावनीयम् । तथाऽन्यैरप्युक्तम् - "सम्भृतसुगुप्तरत्नकरण्डक-प्राप्तितुल्या हि भिक्षवः ! प्रथमसद्धर्मस्थानावाप्तिः" इति गाथार्थः ॥१८॥
यद्येवं समभावलक्षणं सामायिकं कथं तद्वतः क्वचित् क्रिया ?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org