________________
योगशतक-सूत्र : १५-१६-१७ 'मार्गानुसारी', चारित्रमोहनीयकर्मक्षयोपशमयोगात्, अस्य च तत्त्वावाप्तिं प्रत्यवन्ध्यकारणत्वात्, कान्तारगतविवक्षितपुरप्राप्तिसद्योगतासमेतान्धवत् । तथा 'श्राद्धः'- तत्त्वं प्रति तत्प्रत्यनीकक्लेशह्रासातिशयात्, सन्निध्यवाप्तिप्रवृत्ततद्भोक्तृतद्गतविधिश्राद्धवत्, अनेनोत्तरयोगः पापयोगप्रतिबन्धकापगमहेतुरित्येतदाह । तथा 'प्रज्ञापनीयः' अत एव कारणद्वयात् सन्निध्यवाप्तिप्रवृत्ततद्भोक्तृतद्गतविधिश्राद्धाप्तप्रज्ञापकवत्, सच्छ्रद्धाफलोपदर्शनार्थमेतत् । तथा क्रियापरश्चैव, उक्तलक्षणादेव हेतोः, अनेन मार्गानुसारित्वस्य निजं कार्यमाह । उक्तं चान्यैरपि
ऊर्ध्वाऽध:समाधिफलः सात्रवः समाधिः, न चास्य योगतो भेदः इति।
एवं योगस्यानुषङ्गतो निजफलविधिमभिधाय लिङ्गान्तरमाह-गुणरागी, विशुद्धाशयत्वात् तथा शक्त्या(? क्या)रम्भसङ्गतः, वन्ध्यारम्भभावनिवृत्तेः । 'तथा च चारित्री' तथा चारित्री च एवंविधो भवति । इति गाथार्थः ॥१५॥ अयं च चारित्री देश-सर्वचारित्रभेदादनेकविध इत्यत आह
एसो सामाइयसुद्धिभेयओ णेगहा मुणेयव्वो । ..
आणापरिणइभेया अंते जा वीयरागो त्ति ॥१६॥ 'एष:'-चारित्री 'सामायिकशुद्धिभेदतः'-इत्वरेतराङ्गीकरणेन 'अनेकधा' अनेकप्रकारो मन्तव्यः । सामायिकादिप्रतिमानुक्रमेण गृही, तथा सामायिकच्छेदोपस्थाप्यादिक्रमेणानगारः । कथम् ? इत्याह-आज्ञापरिणतिभेदात्, न मौनीन्द्रवचनपरिणतेरन्यत् शुद्धिकारणमिति कृत्वा । अन्ते यावत् सर्वभेदानां वीतरागः । तत्रापि क्षायिकवीतरागः । इति गाथार्थः ॥१६॥ सामायिकस्यैकरूपत्वात् कथं शुद्धिः ? इत्याशङ्कापोहायाह
पडिसिद्धेसु अ देसे विहिएसु य ईसिरागभावे वि । ___सामाइयं असुद्धं सुद्धं समयाए दोसुं पि ॥१७॥
'प्रतिषिद्धेषु'-प्राणातिपातादिषु हेयेषु 'अ(च)द्वेषे'-अ(च) मत्सरे, 'विहितेषु च' तपोज्ञानादिषु ईषद्-मनाग् रागभावेऽपि औत्सुक्यकरणेन ।
१. द्रष्टव्यं स्थानांगे पृ. ३७८ .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org