________________
योगशतकक- सूत्र : १२-१३-१४
एयं पुण णिच्छयओ अइसयणाणी वियाणए णवरं । इयरो वि य लिंगेहिं उवउत्तो तेण भणिएहिं ॥ १२ ॥ 'एतत् पुनः 'अनन्तरोदितविधिसमायातमधिकारित्वं 'निश्चयत: '- निश्चयेन अतिशयज्ञानी विजानाति, नवरं केवलं, नान्यः । यद्येवम्, अनर्थक एवास्योपन्यास इत्याह-' इतरोऽपि च ' अनतिशयी छद्मस्थः 'लिङ्गैः'चिह्नर्वक्ष्यमाणैः उपयुक्तः सन् नान्यथा, 'तेन' अतिशयिना 'भणितैः' प्रतिपादितैः जानाति । इति गाथार्थः ॥ १२ ॥ कानि पुनस्तानि लिङ्गानि ? इत्याह
२८
पावं न तिव्वभावा कुणइ, ण बहुमण्णई भवं घोरं । उचियट्ठिनं च सेवइ सव्वत्थ वि अपुणबंधो त्ति ॥ १३ ॥ 'पापम्' - असदनुष्ठानं 'न तीव्रभावेन करोति, करोति च तथाविधकर्मदोषेण । तथा न बहुमन्यते चित्तप्रीत्या 'भवं घोरं' भवन्त्यस्मिन् कर्मपरिणामवशवर्तिनः प्राणिन इति भवः - संसारस्तं रौद्रम् । तथा ' उचितस्थितिं च' उचितव्यवस्थां च 'सेवते' भजते 'सर्वत्रापि' धर्मादौ मार्गानुसारित्वाभिमुख्येन मयूरशिशुदृष्टान्ताद् 'अपुनर्बन्धक इति' एवम् एवम्भूतोऽपुनर्बन्धकोऽभिधीयते इति गाथार्थः ॥१३॥ सम्यग्दृष्टिलिङ्गाभिधित्सयाऽऽह
सुस्सूस धम्मराओ गुरु देवाण जहासमाहीए । वेयावच्चे नियमो सम्मदिठ्ठिस्स लिंगाई ॥ १४ ॥ 'शुश्रूषा' श्रोतुमिच्छा धर्मशास्त्रेषु, गेयरागिकिन्नरगेयशुश्रूषाधिका । तथा ‘धर्मरागः' धर्माभिष्वङ्गः, सामग्रीवैकल्या [त् त ] दकरणेऽपि चेतसोऽनुबन्धः, दरिद्रब्राह्मणविशेषहविः पूर्णरागसमधिकः । तथा 'गुरु- देवानां ' - चैत्य-साधूनां ‘यथासमाधिना' शक्त्याद्यनुरूपम्, नासद्ग्रहेण, किम् ? इत्याह- ' वैयावृत्त्ये ' व्यावृत्तभावे नियमः, गुणज्ञश्राद्धचिन्तामणिवैयावृत्त्यनियमाभ्यधिकः करोत्येवैतदित्यर्थः । सम्यग्दृष्टेः ‘लिङ्गानि ' - चिह्नानि, ग्रन्थिभेदेन तत्त्वे तीव्रभावात् । इति गाथार्थः ॥१४॥ चारित्रिलिङ्गान्याह
मग्गणुसारी सद्धो पण्णवणिज्जो कियापरो चेव । गुणरागी सकारंभसंगओ तह य चारिती ॥१५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org