SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ २७ योगशतक-सूत्र : १०-११ ततस्तदात्वे कल्याणमायत्यां तु विशेषतः। मन्त्राद्यपि 'सदाचारात् सर्वावस्थाहितं मतम् । 'द्वयोरावर्तभेदेन तथा सांसिद्धिकत्वतः । युज्यते सर्वमेवैतन्नान्यथेति मनीषिणः ॥ (योगबिन्दुः १०१-५) न च प्रकृति-कर्मप्रकृत्योः कश्चिद् भेदोऽन्यत्राभिधानभेदात् । इति गाथार्थः ॥१०॥ एतद्भावनायैवाह - तप्पोग्गलाण तग्गहणसहावावगमओ य एवं ति । इय दट्ठव्वं इहरा तहबंधाई न जुजंति ॥११॥ 'तत्पुद्गलानां'- कर्मप्रकृतिपरमाणूनां 'तद्ग्रहणस्वभावापगमतः' जीवग्रहणस्वभावापगमात् 'च' शब्दाद् जीवस्य च तद्ग्राहकस्वभावापगमाद् कारणाद् एतन्नूनं निवृत्तप्रकृत्यधिकारित्वम्, एतत्पुरस्सरं च प्रस्तुताधिकारित्वम् 'इय' एवं द्रष्टव्यम् । विपक्षे बाधामाह 'इतरथा' यद्येवं नाभ्युपगम्यते, ततः किम् ? इत्याह- तथाबन्धादयो न युज्यन्ते 'तथा' इति चित्रानन्तग्रहणप्रकारेण बन्धः, आदिशब्दाद् भूयोग्रहणाऽग्रहणरूपो मोक्ष: तथा एतन्निबन्धनाश्च विकारा दोष-गुणलक्षणा इति, एते न युज्यन्ते, अतत्स्वभावस्य तथा भवनाऽयोगात्, अतिप्रसङ्गादिति । तदयमत्र भावार्थ:ते परमाणवोऽनादित एव तथाऽनन्तशः तदात्मग्रहणस्वभावाः, सोऽप्यात्मा एवमेव तद्ग्राहकस्वभाव इत्युभयोस्तत्स्वभावतया घटन्ते तथाबन्धादयः, अन्यथा मुक्तानामपि बन्धादिप्रसङ्गः, अत(स्त)त्स्वभावत्व एवोभयोरपि तद्भावोपपत्तेरिति भावनीयम् । न चैवमपि स्वभाववाद एवैकान्तेन, तथाविधकालादेरप्यत्रोपयोगात्, तस्यैव तदाक्षेपकत्वात्, इतरेतरापेक्षित्वे प्राधान्यासिद्धेः, सामग्रया एव फलनिष्पादकत्वात् । निर्लोठितमेतदन्यत्र धर्मसारादौ । इति गाथार्थः ॥११॥ दुर्विज्ञेयं चैतदित्याह १ 'सदा चारु' इति योगबिन्दौ ॥ २ "उभयोस्तत्स्वभावत्वात् तदावनियोगतः ॥' इति रूपं पूर्वार्द्ध योगबिन्दौ वर्तते ॥' Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy