________________
योगशतक-सूत्र : ६-७-८ एत्तो च्चिय कालेणं णियमा सिद्धी पगिट्ठरूवाणं ।।
सण्णाणाईण तहा जायइ अणुबंधभावेण ॥६॥ 'अत एव'-गुरुविनयादेः 'कालेन' गच्छता 'नियमात् सिद्धि:'अवन्ध्यकारणत्वेनावश्यन्तया निष्पत्तिः । केषाम् ? इत्याह- 'प्रकृष्टरूपाणां' क्षायिकाणां सज्ज्ञानादीनाम् तथा जायते । तथा'- इति औचित्यप्रतिपत्तिपुरस्सरया सदाज्ञाराधनया तवृद्धिभावात् । तथा चाह 'अनुबन्धभावेन'-तदुत्तरोत्तराक्षेपेण, मार्गानुसार्याज्ञाविशुद्धानुष्ठानस्य सदनुबन्धत्वात् । इति गाथार्थः ॥६॥
___ एवं च कृत्वा गुरुविनयादिमतोऽपि योगिव्यपदेशो न्याय्य एवेत्यत आह
· मग्गेणं गच्छंतो सम्मं सत्तीए इट्ठपुरपहिओ ।
जह तह गुरुविणयाइसु पयट्टओ एत्थ जोगि त्ति ॥७॥ मार्गेण-प्रापकपथा तात्त्विकेन गच्छन् 'सम्यक्' शकुनादिमाननादिना प्रकारेण शक्त्या गमनसामर्थ्यरूपया 'इष्टपुरपथिकः' यथाभिलषितपुराध्वगो यथा प्राप्त्यविसंवादेनोच्यते तथा 'गुरुविनयादिषु' प्रागुपन्यस्तेषु प्रवृत्तः सन् विधिना “अत्र" प्रक्रमे योगीत्युच्यते इष्टयोगप्राप्त्यविसंवादेन । इह च व्यवहितगाथायामत्र च विधिग्रहण-सम्यग्ग्रहणाभ्यां गृहीतमपि भेदेन शक्त्यभिधानं तत्प्राधान्यख्यापनार्थम्। दृष्टश्चायं न्यायः, यदुत "सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थं, भेदेनाभिधानम्, यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायातः" इति । प्राधान्यं तु सर्वत्र शक्तेरनुबन्धसाधकत्वेन यथोक्तम् "शक्तिः सफलैव सम्यक्प्रयोगात्" इति गाथार्थः ॥७॥
एवं योगपीठमभिधायाधिकार्यादिनिरूपणार्थमाह. अहिगारिणो उवाएण होइ सिद्धी समत्थवत्थुम्मि ।
फलपगरिसभावाओ विसेसओ जोगमग्गम्मि ॥८॥ 'अधिकारिणः' योग्यस्य 'उपायेन' तत्साधनप्रकारेण भवति 'सिद्धिः' कार्यनिष्पत्ति: 'समस्तवस्तुनि' सेवादौ फलप्रकर्षभावात् मुक्तिसाधनत्वेन "विशेषतः' विशेषेण 'योगमार्गे' प्रस्तुते अधिकारिण उपायेन सिद्धिः इति गाथार्थः ॥८॥
वशिष्ठोऽप्राधान्यख्यापनाधानार्थम् । दृष्टश्चाहणाभ्यां गृहीतमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org