________________
योगशतक-सूत्र : ३-४-५
च बाह्यविषयत्वात्, “पढमम्मि सव्वजीवा"(आव.नि. ७९१) इति वचनात्, अन्यथा अस्याभाव इति भावनीयम् । क्रमश्चायमेषाम्, निश्चयत इत्थमेव भावात् । तथाहि- नाज्ञाते श्रद्धा, अश्राद्धस्य वाऽनुष्ठानमिति । उक्तं च "यदि जानात्युत्पन्नरुचिस्ततो दोषान्निवर्तते ।"
अन्यत्र तु सम्यग्यदर्शनोपन्यास आदौ व्यवहारमतेन कर्मवैचित्र्यात् तथा भावतोऽविरुद्ध एव । इति गाथार्थः ॥३॥
एवं निश्चयसारत्वाद् योगस्याऽऽदौ तन्मतेन लक्षणमभिधायाधुना व्यवहारमतेनाभिधातुमाह
ववहारओ एसो विन्नेओ एयकारणाणं पि । . जो संबंधी सो वि य कारण कजोवयाराओ ।।४॥ ___ 'व्यवहारतस्तु'-सामान्येन फलं प्रति योग्यतामधिकृत्य 'एष'-प्रस्तुतो योगः 'विज्ञेयः'-ज्ञातव्यः । किम्भूतः ? इत्याह- "एतत्कारणानामपि' सज्ज्ञानादिकारणानामपि गुरुविनयादीनाम् अपिशब्दात् सज्ज्ञानादीनामपि सर्वनयभावाङ्गीकरणेन यः सम्बन्ध: सोऽपि च योगो विज्ञेयः । चशब्दादनन्तरोदितश्च । कथम् ? इत्याह - 'कारणे कार्योपचाराद्'-योगकारणे-अनन्तरपरम्परभेदभिन्ने कार्योपचाराद्-योगोपचारात् । दृष्टश्चायं प्रयोगो यथा-आयुर्घतम्, तण्डुलान् वर्षति पर्जन्यः । इति गाथार्थः ॥४॥ प्रस्तुतयोगमेव स्वरूपत आह
गुरुविणओ सुस्सूसाइया य विहिणा उ धम्मसत्थेसु ।
तह चेवाणुट्ठाणं विहि-पडिसेहेसु जहसत्तिं ॥५॥ 'गुरुविनयः' पादधावनादिः, 'शुश्रूषादयश्च' शुश्रूषा-श्रवण-विज्ञानधारणोहाऽ पोहतत्त्वाभिनिवेशाश्च, 'विधिना तु'- विधिनैव स्थानशुद्ध्यादिना, अविधेः प्रत्यवायहेतुत्वात्, अकृतोऽविधिकृतयोगाद् वरम्, असच्चिकित्सोदाहरणादिति भावनीयम् । क्वैवं शुश्रूषादयः ? इत्याह-'धर्मशास्त्रेषु'-आचारोत्तमश्रुतादिष्वित्यर्थः । तथैव 'अनुष्ठानं'- क्रियारूपं 'विधि-प्रतिषेधयोः'धर्मशास्त्रोदितयोः कथम् ? इत्याह -'यथाशक्ति' -करणाऽकरणयोः शक्त्यनुल्लंघनेन । इति गाथार्थः ॥५॥ कथं पुनरस्य निश्चययोगाङ्गता ? इत्याह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org