________________
योगशतक-सूत्र : २-३
२३ अध्यात्मं च योग इति यथोदितप्रयोजनसिद्धिः । पर्याप्तं प्रसङ्गेन । इति गाथार्थः ॥ १॥ इह योगो द्विधा- निश्चयतो व्यवहारतश्चेति । अस्य लक्षणमाह -
निच्छयओ इह जोगो सण्णाणाईण तिण्ह संबंधो । . मोक्खेण जोयणाओ णिहिट्ठो जोगिनाहेहिं ॥ २॥
'निश्चयतः' -निश्चयेन-अक्षेपफलं नियमफलं वाऽङ्गीकृत्य तद्भावेन । 'इह'- लोके प्रवचने वा । 'योगः' -धर्मविशेष: 'सज्ज्ञानादीनां' -सज्झानस्य सद्दर्शनस्य सच्चारित्रस्य च। सद्ग्रहणं मिथ्याज्ञानादिव्यवच्छेदार्थम्, एतेषां त्रयाणां 'सम्बन्धः' -मीलकः, एकात्मन्यवस्थानमित्यर्थः। त्रयाणामिति च न्यूनाधिकसंख्यानिरासार्थम्, त्रयाणामेव सम्बन्धो निश्चयतो योगः । कुतः ? इत्यन्वर्थमाह- 'मोक्षण योजनात्'-कृत्स्नकर्मक्षयो मोक्षः, अपुनर्बन्धकत्वेनाऽऽत्मन आत्मन्येवावस्थानम्, तेन 'योजनाद्'- घटनात्, कारणात् । नेदं स्वमत्युत्प्रेक्षितं योगलक्षणमित्याह- 'निर्दिष्टो योगिनाथैः'- निर्दिष्ट:प्रतिपादितः, योगिनः -मुनयस्तन्नाथैः-वीतरागैरर्हद्भिरिति। अनेन मुक्तबाहुल्यमाह । तदद्वैते योगनैरर्थक्यप्रसङ्गात्, सदन्तरस्य सदन्तरत्वानुपपत्तेः तत्रैव लयासम्भवात् । इति गाथार्थः ॥२॥ सज्ज्ञानादिलक्षणमाह
सण्णाणं वत्थुगओ बोहो, सइंसणं तु तत्थ रुई ।
सच्चरणमणुट्ठाणं विहि-पडिसेहाणुगं तत्थ ॥३॥ ''सज्ज्ञानं' -सम्यग्ज्ञानं 'वस्तुगतः' वस्त्वाव (स्त्वा)लम्बन: बोध:'परिच्छेदः, निरालम्बनस्य बोधस्यासम्भवात्, सम्भवेपि सज्ज्ञानत्वायोगात्, मरुमरीचिकादिबोधे तथादर्शनात्, अन्यथा अस्य सदितरत्वाभाव इति । तथा 'सदर्शनं तु'-सम्यग्दर्शनं पुनः 'तत्र'-वस्तुनि 'रुचिः'- श्रद्धा "तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" (तत्त्वार्थ १-२) इति वचनात्, अन्यथा चेयं ज्ञानात्, आवरणभेदेन क्वचित् तद्भावेप्यभावादिति। तथा 'सच्चरणं' सम्यक्चारित्रम् 'अनुष्ठान' क्रियारूपं 'विधि -प्रतिषेधानुगं' विधि-प्रतिषेधावनुगच्छति, आगमानुसारीत्यर्थः। 'तत्र' -इति वस्तुन्येव, अस्य महाव्रतरूपत्वात् तेषां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org