________________
योगशतक - सूत्र : १
विशेष्यते 'सुयोगसन्दर्शकं' शोभनो योगः - औचित्यादिविशेषरूपतया एकान्ततः सानुबन्धफलहेतुः चित्रभेदो गुरुविनयादिरूप इति, तस्य संदर्शक : सम्यग् आसेवनोपदेशद्वारेण दर्शकः सन्दर्शक:, तथा च भगवांश्चरमदेहतया कर्मवशितायामपि तथाविधविनेयानुग्रहाय जानानोऽपि विचित्रानभिग्रहानासेवितवान् इति, तम् । कमेवम्भूतम् ? इत्याह- 'महावीरं' 'शूरवीर विक्रान्तौ' इति कषायादिशत्रुजयाद् महाविक्रान्तो महावीरः । " ईर गतिप्रेरणयोः” इत्यस्य वा विपूर्वस्य विशेषेणेरयति कर्म याति वेह शिवमिति वीरः, महांश्वासौ वीरश्च महावीर : - वर्तमानतीर्थेश्वरस्तम् । एवं नत्वा किम् ? अत आह- वक्ष्ये अभिधास्ये । किम् ? इत्याह 'योगलेशं योगैकदेशम्, तत्त्वतो व्यापकत्वेऽप्यस्य ग्रन्थाल्पतया एवं व्यपदेश: कर्पूरादिलेशवदविरुद्ध एव । कुतो वक्ष्ये ? किं स्वमनीषिकया ? न, - इत्याह 'योगाध्ययनानुसारेण' - योगाध्ययनं प्रवचनप्रसिद्धम्, तदनुसारेण - तन्नीत्या |
एवं चेह ग्रन्थकारस्य योगलेशाभिधानमनन्तरप्रयोजनम्, योगलेश एवाभिधीयमानोऽभिधेयम्, साध्य-साधनलक्षणश्च सम्बन्धः । श्रोतॄणां तु योगलेशज्ञानमनन्तरप्रयोजनं, (परम्पराप्रयोजनं) तु द्वयोरपि मुक्तिरेव, तत्त्वज्ञानपूर्विकत्वाद् मुक्तेः । न चास्य योगं मुक्त्वा अपर उपाय : । यथोक्तम् "वादांश्च प्रतिवादांश्च वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद् गतौ ॥६७॥ अध्यात्ममत्र परम उपाय: परिकीर्तितः । गतौ सन्मार्गगमनं यथैव ह्यप्रमादिनः ॥ ६८ ॥ मुक्त्वाऽतो वादसङ्घट्टमध्यात्ममनुचिन्त्यताम् । नाविधूते तमस्कन्धे ज्ञेये ज्ञानं प्रवर्तते ॥ ६९ ॥ औचित्याद् वृत्तयुक्तस्य वचनात् तत्त्वचिन्तनम् । मैत्र्यादिसारमत्यन्तमध्यात्मं तद्विदो विदुः ॥३५८॥ अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथानुभवसंसिद्धममृतं ाद एव तु ॥ ३५९ ॥ योगबिन्दुः॥" इत्यादि ।
२२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org