SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ॥ जयन्तु वीतरागाः ॥ याकिनीमहत्तरासूनुश्रीहरिभद्रसूरिविरचितं स्वोपज्ञटीकया समलकृतम् योगशतकम् ॥ ॐ नमः सर्वज्ञाय ॥ योगशतकस्य व्याख्या प्रस्तूयते। इह चाऽऽ दवेवाऽऽचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थं चेदं गाथासूत्रमुपन्यस्तवान् - णमिऊण जोगिणाहं सुजोगसंदंसगं महावीरं । वोच्छामि जोगलेसं जोगझयणाणुसारेणं ॥ १ ॥ - तत्र शिष्यनामयं समयः, यदुत शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते । अयमप्याचार्यों न हि न शिष्ट इत्यतस्तत्समयप्रतिपालनाय, तथा श्रेयांसि बहुविघ्नानि भवन्तीति, उक्तं च - श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । . अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥ इति. इदं च योगशतकं सम्यग्ज्ञानहेतुत्वात् श्रेयोभूतं वर्तते, अतो मा भूद् विघ्न इति विघ्नविनायकोपशान्तये 'णमिऊण जोगिणाहं सुजोगसंदंसगं महावीरं' इत्यनेनेष्टदेवतास्तवमाह । प्रेक्षापूर्वकारिणश्च प्रयोजनादिशून्ये न प्रवर्तन्त इति प्रयोजनादिप्रतिपादनार्थ च 'वोच्छामि जोगलेसं जोगज्झयणाणुसारेणं' इत्येतदाह । एष तावद् गाथाप्रस्ताव: समुदायार्थश्च । अधुनावयवार्थ उच्यते - _ 'नत्वा' प्रणम्य । कम् ? इत्याह- 'योगिनाथं'- योगः सज्ज्ञानादिसम्बन्धरूपो वक्ष्यमाणलक्षणो निश्चयादिभेदभिन्नः, स विद्यते येषां ते योगिनःमुनयः, तेषां नाथो योगिनाथः, तथा च भगवान् वीतरागादीनां पश्चानुपूर्व्या अपुनर्बन्धकावसानानां तथातथोपकारकरणपालनाद् नाथः, तम् । अयमेव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy