________________
योगविंशिका सूत्र - २० दुरन्तरागादिभावसंतानसमुद्रस्य तरणं भवति । ततश्च श्रेणि:'-क्षपकश्रेणिर्नियूंढा भवति, सा ह्यध्यात्मादियोगप्रकर्षगर्भिताशयविशेषरूपा । एष एव सम्प्रज्ञातः समाधिस्तीर्थान्तरीयैर्गीयते, एतदपि सम्यग्-यथावत् प्रकर्षेण सवितर्कनिश्चयात्मकत्वेनात्मपर्यायाणामर्थानां च द्विपादीनामिह ज्ञायमानत्वादर्थतो नानुपपन्नम्,ततश्च 'केवलमेव' केवलज्ञानमेव भवति । अयं चासम्प्रज्ञातः . समाधिरिति परैर्गीयते, तत्रापि अर्थतो नानुपपत्तिः, केवलज्ञानेऽशेषवृत्त्यादिनिरोधाल्लब्धात्मस्वभावस्य मानसविज्ञानवैकल्यादसम्प्रज्ञातत्वसिद्धेः । अयं चासम्प्रज्ञातः समाधिर्द्विधा-सयोगिकेवलिभावी अयोगिकेवलिभावी च, आयो मनोवृत्तीनां विकल्पज्ञानरूपाणामत्यन्तोच्छेदात्सम्पद्यते । अन्त्यश्च परिस्पन्दरूपाणाम्, अयं च केवलज्ञानस्य फलभूतः । एतदेवाह-'ततश्च' केवलज्ञानलाभादनन्तरं च 'अयोगयोगः'-वृत्तिबीजदाहायोगाख्यः समाधिर्भवति । अयं च 'धर्ममेघः' इति पातञ्जलैर्गीयते, 'अमृतात्मा' इत्यन्यैः, 'भवशत्रुः इत्यपरैः 'शिवोदयः' इत्यन्यैः, 'सत्त्वानन्दः' इत्येकैः, 'परश्च' इत्यपरैः । 'क्रमेण'-उपदर्शितपारम्पर्येण ततोऽयोगयोगात् 'परमं'-सर्वोत्कृष्टफलं निर्वाणं भवति ॥२०॥ ॥ इति महोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकपण्डितश्रीपद्म
विजयगणिसहोदरोपाध्यायश्रीजसविजयगणिसमर्थितायां विंशिकाप्रकरणव्याख्यायां योगविंशिका-विवरणं सम्पूर्णम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org