________________
योगविंशिका सूत्र - १९-२०
१९
इषुपातज्ञातात्परतत्त्वदर्शने सति केवलज्ञानोत्तरमनालम्बनयोगप्रवृत्तिर्मा भूत्, सालम्बनयोगप्रवृत्तिस्तु विशिष्टतरा काचित्स्यादेव, केवलज्ञानस्य लब्धत्वेऽपि मोक्षस्याद्यापि योजनीयत्वात् । मैवम् - केवलिनः स्वात्मनि मोक्षस्य योजनीयत्वेऽपि ज्ञानाकाङ्क्षाया अविषयतया ध्यानानालम्बनत्वात्क्षपकश्रेणिकालसम्भविविशिष्टतरयोगप्रयत्नाभावादावर्जीकरणोत्तरयोगनिरोधप्रयत्नाभावा
च्चार्वाक्तनके वलिव्यापारस्य ध्यानरूपत्वाभावादुक्तान्यतरयोगपरिणतेरेव ध्यानलक्षणत्वात् । आह च महाभाष्यकारः
'सुदढप्पयत्तवावारणं णिरोहो व विजमाणाणं । झाणं करणाण मयं ण उ चित्तणिरोहमित्तागं ॥१॥ (विशेषावश्यक - गाथा ३०७१ ) इति । स्यादेतद्, यदि क्षपक श्रेणिद्वितीयापूर्वकरणभावी सामर्थ्ययोग एवानालम्बनयोगो ग्रंथकृताऽभिहितस्तदा तदप्राप्तिमतामप्रमत्तगुणस्थानानामुपरतसकलविकल्पकल्लोलमालानां चिन्मात्रप्रतिबन्धोपलब्धरत्नत्रयसाम्राज्यानां जिनकल्पिकादीनामपि निरालम्बनध्यानमसंगताभिधानं स्यादिति । मैवम् यद्यपि तत्त्वतः परतत्त्वलक्ष्यवेधाभिमुखस्तदविसंवादी सामर्थ्ययोग एव निरालम्बनस्तथापि परतत्त्वलक्ष्यवेधप्रगुणतापरिणतिमात्रादर्वाक्तनं परमात्मगुणध्यानमपि मुख्यनिरालम्बनप्रापकत्वादेकध्येयाकारपरिणतिशक्तियोगाच्च निरालम्बनमेव । अत एवावस्थात्रयभावने रूपातीतसिद्धगुणप्रणिधानवेलायामप्रमत्तानां शुक्लध्यानांशो निरालम्बनोऽनुभवसिद्ध एव । संसार्यात्मनोऽपि च व्यवहारनयसिद्धमौपाधिकं रूपमाच्छाद्य शुद्धनिश्चयनयपरिकल्पितसहजात्मगुणविभावने निरालम्बनध्यानं दुरपह्नवमेव, परमात्मतुल्यतयाऽऽत्मज्ञानस्यैव निरालम्बनध्यानांशत्वात्, तस्यैव च मोहनाशकत्वात् । आह च- " जो जाणइ अरिहंते, दव्वत्तगुणत्तपज्जयत्तेहिं । सो जाणइ अप्पाणं, मोहों खलु जाइ तस्स लयं ॥ प्र. सा. १-८० ॥" इति । तस्माद्रूपिद्रव्यविषयं ध्यानं सालम्बनं अरूपिविषयं च निरालम्बनमिति स्थितम् ॥१९॥ अथ निरालम्बनध्यानस्यैव फलपरम्परामाह
एयम्मि मोहसागरतरणं सेढी य केवलं चेव । तत्तो अजोगजोगो, कमेण परमं च निव्वाणं ॥२०॥ 'एयम्मि' ति । एतस्मिन् ' - निरालम्बनध्याने लब्धे मोहसागरस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org