________________
तत्त्वं-केवलजीवप्रदेशसंघातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः, 'तुः' एवार्थे, 'अपरः' अनालम्बनः, अत्रारूपितत्त्वस्य स्फुटविषयत्वाभावादनालम्बनत्वमुक्तम् । अधिकृतग्रन्थगाथायां च विषयतामात्रेण तस्यालम्बनत्वमनूद्यापि तद्विषययोगस्येषदालम्बनत्वादनालम्बनत्वमेव प्रासाधीति फलतो न कश्चिद्विशेष इति स्मर्तव्यम् । अयं चानालम्बनयोगः "शास्त्रसंदर्शितोपायस्तदतिक्रान्तगोचरः । शक्ययुद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः ॥५॥" (योग.समु.) इति श्लोकोक्तस्वरूपक्षपकश्रेणीद्वितीयापूर्वकरणभाविक्षायोपशमिकक्षान्त्यादिधर्म संन्यासरूपसामर्थ्ययोगतो निस्सङ्गानवरतप्रवृत्ता या पर तत्त्वदर्शनेच्छा तल्लक्षणों मन्तव्यः। आह च• 'सामर्थ्ययोगतो या, तत्र दिदृक्षेत्यसङ्गशक्त्याढ्या ।
साउनालम्बनयोगः, प्रोक्तस्तददर्शनं यावत् ॥ (षो. १५-८) ॥ 'तत्र' परतत्त्वे द्रष्टुमिच्छा दिदृक्षा 'इति' एवंस्वरूपा असङ्गशक्क्यानिरभिष्वङ्गाविच्छिन्नप्रवृत्त्या आढ्या-पूर्णा 'सा' परमात्मदर्शनेच्छा अनालम्बनयोगः, परतत्त्वस्याऽदर्शनं-अनुपलम्भं यावत्, परमात्मस्वरूपदर्शने तु केवलज्ञानेनानालम्बनयोगो न भवति, तस्य तदालम्बनत्वात् । अलब्धपरतत्वस्तल्लाभाय ध्यानरूपेण प्रवृत्तो ह्यनालम्बनयोगः, स च क्षपकेन धनुर्धरण क्षपकश्रेण्याख्यधनुर्दण्डे लक्ष्यपरतत्त्वाभिमुखं तद्वेधाविसंवादितया व्यापारितो यो बाणस्तत्स्थानीयः, यावत्तस्य न मोचनं तावदनालम्बनयोगव्यापारः, यदा तु ध्यानान्तरिकाख्यं तन्मोचनं तदाऽविसंवादितत्पतनमात्रादेव लक्ष्यवेध इतीषुपातकल्प: सालम्बनः केवलज्ञानप्रकाश एव भवति, न त्वनालम्बनयोगव्यापारः, फलस्य सिद्धत्वादिति निर्गलितार्थः । आह च "तत्राऽप्रतिष्ठि - तोऽयं; यतः प्रवृत्तश्च तत्त्वतस्तत्र । सर्वोत्तमानुजः खलु, तेनानालम्बनो गीतः ॥ ॥ द्रागस्मात्तदर्शनमिषुपातज्ञातमात्रतो ज्ञेयम् । एतच्च केवलं तत्, ज्ञानं यत्तत्परं ज्योतिः ॥ १०॥" (षो. १५) । 'तत्र' परतत्त्वे 'अप्रतिष्ठितः' अलब्धप्रतिष्ठः सर्वोत्तमस्य योगस्य-अयोगाख्यस्य अनुजः-पृष्ठभावी ॥ 'तद्दर्शन' परतत्त्वदर्शनं, 'एतच्च' परतत्त्वदर्शनं केवलं' स पूर्ण तत्' प्रसिद्ध यत् तत् केवलज्ञानं 'परं' प्रकृष्टं ज्योतिः ।। स्याद् अत्र कस्यचिदाशङ्का
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org