________________
१७
. योगविंशिका सूत्र- १८-१९ नात्मसाद्भूतं जिनकल्पिकादीनां क्रियासेवनमसंगानुष्ठानम्, आह च'यत्त्वभ्यासातिशयात् सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसंगानुष्ठानं, भवति त्वेतत्तदावेधात्' (षो.१०-७)' 'तदावेधातू' - 'यथाऽऽद्यं चक्रभ्रमणं दण्डव्यपारादुत्तरं च तजनितकेवलसंस्कारादेव तथा भिक्षाटनादिविषयं वचनानुष्ठानं वचनव्यापाराद्, असंगानुष्ठानं च केवलतजनितसंस्कारादिति विशेषः' आह च 'चक्रभ्रमणं दंडात्तदभावे चैव यत्परं भवति । वचनासंगानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥' (षो.१०-८) इति ॥
'खलु' इति निश्चये । एतेष्वनुष्ठानभेदेषु 'एष:'- एतदः समीपतरवृत्तिवाचकत्वात्समीपाभिहिताऽसङ्गानुष्ठानात्मा चरमो योगोऽनालम्बनयोगो भवति, सङ्गत्यागस्यैवानालम्बनलक्षणत्वादिति भावः ॥ १८ ॥ आलम्बनविधयैवानालम्बनस्वरूपमुपदर्शयन्नाह
आलंबणं पि एयं, रूवमरूवी य. इत्थ परमु त्ति ।
तग्गुणपरिणइरूवो, सुहुमो अणालंबणो नाम ॥ १९ ॥ 'आलंबणं पि' ति। आलम्बनमपि 'एतत्'-प्राकरणिकबुद्धिसंनिहितं 'अत्र'-योगविचारे 'रूपि' समवसरणस्थजिनरूपतत्प्रतिमादिलक्षणम्, 'च'पुनः 'अरूपी परम:'-सिद्धात्मा इत्येवं द्विविधम् । तत्र तस्यअरूपिपरमात्मलक्षणस्यालम्बनस्य ये गुणा:-केवलज्ञानादयस्तेषां परिणति:समापत्तिलक्षणा तया रूप्यत इति तद्गुणपरिणतिरूपः सूक्ष्मोऽतीन्द्रियविषयत्वादनालम्बनो नाम योगः, अरूप्यालम्बनस्येषदालम्बनत्वेन 'अलवणा यवागूः' इत्यत्रेवात्र नपदप्रवृत्तेरविरोधात् । “सुहुमो आलंबणो नाम" त्ति वचित्पाठस्तत्रापि सूक्ष्मालम्बनो नामैष योगस्ततोऽनालम्बन एवेति भाव उन्नेयः, उक्तं चात्राधिकारे चतुर्दशषोडशके ग्रन्थकृतैव-“सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाधस्तत्तत्त्वगस्त्वपरः ॥१॥" सहालम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बन: । आलम्बनात्-विषयभावापत्तिरूपानिष्क्रान्तो निरालम्बनः, यो हि छद्मस्थेन ध्यायते न च स्वरूपेण दृश्यते तद्विषयो निरालम्बन इति यावत् । जिनरूपस्यसमवसरणस्थस्य ध्यानं खलु 'आद्यः'-सालम्बनो योगः । तस्यैव-जिनस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org