________________
. १६
योगविंशिका सूत्र- १७-१८ 'कयमित्थ' त्ति । ‘कृतं' पर्याप्तं अत्र 'प्रसङ्गेन'- प्ररूपणीयमध्ये स्मृतार्थविस्तारणेन 'स्थानादिषु' प्रदर्शितयोगभेदेषु 'यत्नसंगतानां तु' प्रयत्नवतामेव 'एतत्' चैत्यवन्दनाद्यनुष्ठानं 'हितं-' मोक्षसाधकं विज्ञेयम्, चैत्यवन्दनगोचरस्थानादियोगस्य मोक्षहेतुत्वे तस्यापि तत्प्रयोजकत्वादिति भावः । 'तथा' इति प्रकारान्तरसमुच्चये । 'सदनुष्ठानत्वेन'- योगपरिणामकृतपुण्यानुबन्धिपुण्यनिक्षेपाद्विशुद्धचित्तसंस्काररूपया प्रशान्तवाहितया सहितस्य चैत्यवन्दनादेः स्वातन्त्र्येणैव मोक्षहेतुत्वादिति भावः । प्रकारभेदोऽयं नयभेदकृत इति न कश्चिद्दोषः ॥ १७ ॥
सदनुष्ठानभेदानेव प्ररूपयंश्चरमतभेदे चरमयोगभेदमन्तर्भावयन्नाह - .. एयं च पीइभत्तागमाणुगं तह असंगयाजुत्तं ।
नेयं चउव्विहं खलु, एसो चरमो हवइ जोगो ॥ १८ ॥ 'एयं च' ति । एतच्च'-सदनुष्ठानं प्रीतिभक्त्यागमाननुगच्छति तत् प्रीतिभक्त्यागमानुगं - प्रीत्यनुष्ठानं, भक्त्यनुष्ठानं, वचनानुष्ठानं चेति त्रिभेदं तथाऽसंगतया युक्तं असंगानुष्ठानमित्येवं चतुर्विधं ज्ञेयम् । एतेषां भेदानामिदं स्वरूपम् -यत्रानुष्ठाने प्रयत्नातिशयोऽस्ति परमा च प्रीतिरुत्पद्यते शेषत्यागेन च यत्क्रियते तत्प्रीत्यनुष्ठानम् । आह च - 'यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ।' (षो.१०-३) ॥ एतत्तुल्यमप्यालम्बनीयस्य पूज्यत्वविशेषबुद्ध्या विशुद्धतरव्यापारं भक्त्यनुष्ठानम्। आह च - गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि, ज्ञेयं तद्भक्त्यनुष्ठानम् ॥ (षो. १०-४) ॥ प्रीतित्वभक्तित्वे संतोष्यपूज्यकृतकर्तव्यताज्ञानजनितहर्षगतौ जातिविशेषौ। आह च-अत्यन्तवल्लभा खलु, पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात्प्रीतिभक्तिगतम् ॥ (षो. १०-५) 'तुल्यमपि कृत्यं' - भोजनाच्छादनादि 'ज्ञातं' उदाहरणम् । शास्त्रार्थप्रतिसंधानपूर्वा साधोः सर्वत्रोचितप्रवृत्तिवचनानुष्ठानम्, आह च - 'वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं, चारित्रवतो नियोगेन' (षो.१०-६)॥
व्यवहारकाले वचनप्रतिसंधाननिरपेक्षं दृढतरसंस्काराच्चन्दनगन्धन्याये
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org