________________
योगविंशिका सूत्र - १६-१७
".
प्रथमाभ्यासे तथाविधज्ञानाभावादन्यदापि वा प्रज्ञापनीयस्याविधिदोषो निरनुबन्ध इति तस्य तादृशानुष्ठानमपि न दोषाय, विधिबहुमानाद् गुर्वाज्ञायोगाच्च तस्य फलतो विधिरूपत्वादित्येतावन्मात्रप्रतिपादनपराणीति न कश्चिद्दोषः । अवोचाम चाध्यात्मसारप्रकरणे - 'अशुद्धापि हि शुद्धायाः, क्रिया हेतुः सदाशयात् । ताम्रं रसानुवेधेन, स्वर्णत्वमुपगच्छति ॥ १ ॥ ' (२ - १६ श्लो. ) यस्तु विध्यबहुमानादविधिक्रियामासेवते तत्कर्तुरपेक्षया विधिव्यवस्थापनरसिकस्तदकर्ताऽपि भव्य एव तदुक्तं योगदृष्टिसमुच्चये ग्रन्थकृतैव - 'तात्त्विकः पक्षपातश्च, भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥ १ ॥’(२२१ श्लो.) इत्यादि । न चैवं तादृशषष्ठसप्तमगुणस्थानपरिणतिप्रयोज्यविधिव्यवहारा- भावादस्मदादीनामिदानीन्तनमावश्यकाद्याचरणमकर्तव्यमेव प्रसक्तमिति शङ्कनीयम्; विकलानुष्ठानानामपि 'जा जा हविज्ज जयणा, सा सा से णिज्जरा होई ।' इत्यादिवचनप्रामाण्यात् यत्किञ्चिद्विध्यनुष्ठानस्येच्छायोगसंपादकतदितरस्यापि बालाद्यनुग्रहसम्पादकत्वेनाकर्तव्यत्वासिद्धेः । इच्छायोगवद्भिर्विकलानुष्ठायिभिर्गीतार्थैः सिद्धांतविधिप्ररूपणे तु निर्भरो विधेयस्तस्यैव तेषां सकलकल्याणसम्पादकत्वात्, उक्तं च गच्छाचारप्रकीर्णके- 'जइ वि ण सक्कं काउं, सम्मं जिणभासियं अणुट्ठाणं । तो. सम्मं भासिज्जा, जह भणियं खीणरागेहिं ॥ १ ॥ ओसन्नो वि विहारे, कम्मं सोहेइ सुलभबोही य । चरणकरणं विसुद्धं, उववूहंतो परूविंतो ॥ २ ॥ (गाथा २३-२४) इति । ये तु गीतार्थाज्ञानिरपेक्षा विध्यभिमानिन इदानीन्तन- व्यवहारमुत्सृजन्ति, अन्यं च विशुद्धं व्यवहारं संपदायितुं न शक्नुवन्ति ते बीजमात्रमप्युच्छिन्दन्तो महादोषभाजो भवन्ति । विधिसम्पादकानां विधिव्यवस्थापकानां च दर्शनमपि प्रत्यूहव्यूहविनाशनमिति वयं वदामः
॥ १६॥
अथेमं प्रसक्तमर्थं संक्षिपन् प्रकृतं निगमयन्नाह
कयमित्थ पसंगेणं, ठाणाइसु जत्तसंगयाणं तु । हियमेयं विन्देयं, सदणुट्ठाणत्तणेण तहा ॥ १७ ॥
Jain Education International
For Personal & Private Use Only
-
१५
www.jainelibrary.org