________________
१४
योगविंशिका सूत्र - १६
भवति, विधिप्रवृत्त्यैव च तीर्थमव्यवच्छिन्नं भवतीति सिद्धम् ॥ १५ ॥ ननु किमेतावद्गूढार्थगवेषणया ? यद्बहुभिर्जनैः क्रियते तदेव कर्तव्यं, 'महाजनो येन गतः स पन्थाः' इति वचनात् जीतव्यवहारस्यैवेदानीं बाहुल्येन प्रवृत्तेस्तस्यैवाऽऽतीर्थकालभावित्वेन तीर्थव्यवस्थापकत्वादित्याशङ्कायामाह
मुत्तूण लोगसन्नं, उड्डूण य साहुसमयसब्भावं । सम्मं पयट्टियव्वं, बुहेणमइनिउणबुद्धीए ॥१६॥
-
'मुत्तूण' त्ति । मुक्त्वा ('लोकसंज्ञां ') -'लोक एव प्रमाणं' इत्येवंरूपां शास्त्रनिरपेक्षां मतिं 'उड्ढूण य' त्ति वोढ्वा च 'साधुसमयसद्भावं ' समीचीन- सिद्धान्तरहस्यं 'सम्यग् ' विधिनीत्या प्रवर्तितव्यं चैत्यवन्दनादौ 'बुधेन' पण्डितेन 'अतिनिपुणबुद्ध्या' अतिशयितसूक्ष्मभावानुधाविन्या मत्या । साधुसमयसद्भावश्चायम्- 'लोकमालम्ब्य कर्तव्यं, कृतं बहुभिरेव चेत् । तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन ( ज्ञानसारे २३-४), स्तोका आर्या अनार्येभ्यः, स्तोका जैनाश्च तेष्वपि । सुश्राद्धास्तेष्वपि स्तोकाः स्तोकास्तेष्वपि सत्क्रियाः ॥ २ ॥ श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे च न । स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मशोधकाः ॥ ३ ॥ ( ज्ञानसारे २३५) एकोऽपि शास्त्रनीत्या यो, वर्तते स महाजन: । किमज्ञसार्थै: ? शतमप्यन्धानां नैव पश्यति ॥ ४ ॥ यत्संविग्नजनाचीर्णं, श्रुतवाक्यैरबाधितम् । तज्जीतं व्यवहाराख्यं, पारम्पर्यविशुद्धिमत् ॥ ५ ॥ यदाचीर्णमसंविग्नैः, श्रुतार्थानवलम्बिभिः । न जीतं व्यवहारस्तदन्धसंततिसम्भवम् ॥ ६ ॥ आकल्पव्यवहारार्थं, श्रुतं न व्यवहारकम् । इतिवक्तुर्महत्तन्त्रे प्रायश्चित्तं प्रदर्शितम् ॥ ७ ॥ तस्माच्छ्रुतानुसारेण, विध्येकरसिकैर्जनैः । संविग्नजीतमालम्ब्यमित्याज्ञा पारमेश्वरी ॥ ८ ॥"
ननु यद्येवं सर्वादरेण विधिपक्षपातः क्रियते तदा 'अविहिकया वरमकयं, असूयवयणं भणंति सव्वन्नू । पायच्छित्तं जम्हा, अकए गुरुयं कए लहुअं ॥ १ ॥' इत्यादि वचनानां का गति: ? इति चेत्, नैतानि वचनानि मूलत एवाविधिप्रवृत्तिविधायकानि, किन्तु विधिप्रवृत्तावप्यनाभोगादिनाऽविधिदोषश्छद्मस्थस्य भवतीति तद्भिया न क्रियात्यागो विधेयः ।
Jain Education International
For Personal & Private Use Only
-
www.jainelibrary.org