________________
योगविंशिका सूत्र- १५ क्रियमाणे शुद्धायास्तस्या अलाभादशुद्धायाश्चानङ्गीकारादानुश्रोतसिक्या वृत्त्याऽक्रियापरिणामस्य स्वत उपनिपातात्तीर्थोच्छेदः स्यादेव, यथाकथञ्चिदनुष्ठानावलम्बने च जैनक्रिया- विशिष्टजनसमुदायरूपं तीर्थं न व्यवच्छिद्यते, न च कर्तुरविधिक्रियया गुरोरुपदेशकस्य कश्चिद्दोषः, अक्रियाकर्तुस्तस्य स्वपरिणामाधीनप्रवृत्तिकत्वात्, केवलं क्रियाप्रवर्तनेन गुरोस्तीर्थव्यवहाररक्षणादू गुण एवेत्याशङ्कायामाह - 'न च स्वयं मृतमारितयोरविशेषः, किन्तु विशेष एव' स्वयं मृते स्वदुष्टाशयस्यानिमित्तत्वात्, मारिते च मार्यमाणकर्मविपाकसमुपनिपातेऽपि स्वदुष्टाशयस्य निमित्तत्वात्, तद्वदिह स्वयमक्रियाप्रवृत्तं जीवमपेक्ष्य गुरोर्न दूषणम्, तदीयाविधिप्ररूपणमवलम्ब्य श्रोतुरविधिप्रवृत्तौ च तस्योन्मार्गप्रवर्तनपरिणामादवश्यं महादूषणमेव । तथा च श्रुतिकेवलिनो वचनम् ‘जह सरणमुवगयाणं, जीवाण सिरो निकिंतए जो उ । एवं आयरिओ वि हु, उस्सुत्तं पण्णवेंतो य [उपदेशमाला- ५१८] । न केवलमविधिप्ररूपणे दोषः, किन्त्वविधिप्ररूपणाभोगेऽ(? प्य)विधिनिषेधासम्भवात् तदाशंसनानुमोदनापत्तेः फलतस्तत्प्रवर्तकत्वाद्दोष एव । तस्मात् "स्वयमेतेऽविधिप्रवृत्ता नात्रास्माकं दोषो, वयं हि क्रियामेवोपदिशामो न त्वविधिम्" एतावन्मात्रमंपुष्टालम्बनमवलम्ब्य नोदासितव्यं परहितनिरतेन धर्माचार्येण, किन्तु सर्वोद्यमेनाविधिनिषेधेन विधावेव श्रोतारः प्रवर्तनीयाः, एवं हि ते मार्गे प्रवेशिताः, अन्यथा तून्मार्गप्रवेशनेन नाशिताः । एतदपि भावयितव्यमिह तीर्थोच्छेदभीरुभिः -विधिव्यवस्थापनेनैव ह्येकस्यापि जीवस्य सम्यग् बोधिलाभे चर्तुदशरज्वात्मकलोकेऽमारिपटहवादनात्तीर्थोन्नतिः, अविधिस्थापने च विपर्ययात्तीर्थोच्छेद एवेति । यस्तु श्रोता विधिशास्त्रश्रवणकालेऽपि न संवेगभागी तस्य धर्मश्रावणेऽपि महादोष एव, तथा चोक्तं ग्रन्थकृतैव षोडशके - 'यः शृण्वन् सिद्धान्तं, विषयपिपासातिरेकतः पापः । प्राप्नोति न संवेग, तदापि यः सोऽ चिकित्स्य इति ॥ १ ॥ नैवंविधस्य शस्तं, मण्डल्युपवेशनप्रदानमपि । कुर्वनेतद् गुरुरपि, तदधिकदोषोऽवगन्तव्यः ॥ २ ॥ - (१० षो. १४१५) - मण्डल्युपवेशनं सिद्धान्तदानेऽर्थमण्डल्युपवेशनम् । तदधिकदोषः'अयोग्यश्रोतुरधिकदोषः, पापकर्तुरपेक्षया तत्कारयितुर्महादोषत्वात् । तस्माद्विधिश्रवणरसिकं श्रोतारमुद्दिश्य विधिप्रापणेनैव गुरुस्तीर्थव्यवस्थापको
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org