________________
योगविंशिका सूत्र- १४-१५. चिन्तितव्यमेतत् यदुत "कायं व्युत्सृजामि" इति प्रतिज्ञान्यथानुपपत्त्या देशविरतिपरिणामयुक्ता एव चैत्यवन्दनानुष्ठानेऽधिकारिणः, तेषामेवागमपरतन्त्रतया विधियत्नसम्भवेनामृतानुष्ठानसिद्धेरिति । एतच्च मध्यमाधिकारिग्रहणं तुलादण्डन्यायेनाद्यन्तग्रहणार्थम्, तेन परमामृतानुष्ठानपराः सर्वविरतास्तत्त्वत एव । तद्धत्वनुष्ठानपरा: अपुनर्बन्धका अपि च व्यवहारादिहाधिकारिणो गृह्यन्ते, कुग्रहविरहसम्पादनेनापुनर्बन्धकानामपि चैत्यवन्दनानुष्ठानस्य फलसम्पादकतायाः पञ्चाशकादिप्रसिद्धत्वादित्यवधेयम् । ये त्वपुनर्बन्धकादिभावमप्यस्पृशन्तो विधिबहुमानादिरहिता गतानुगतिकतयैव चैत्यवन्दनाधनुष्ठानं कुर्वन्ति ते सर्वथाऽयोग्या एवेति व्यवस्थितम् ॥ १३॥
नन्वविधिनाऽपि चैत्यवन्दनाद्यनुष्ठाने तीर्थप्रवृत्तिरव्यवच्छिन्ना स्यात्, विधेरेवान्वेषणे तु द्वित्राणामेव विधिपराणां लाभात् क्रमेण तीर्थोच्छेद: स्यादिति तदनुच्छेदायाविध्यनुष्ठानमप्यादरणीयमित्याशङ्कायामाह
तित्थस्सुच्छेयाइ वि, नालंबणमित्थ जं स एमेव ।
सुत्तकिरियाइ नासो, एसो असमंजसविहाणा ॥१४॥ 'तित्थस्स' इत्यादि । अत्र' अविध्यनुष्ठाने 'तीर्थोच्छेदाद्यपि नालम्बनं' तीर्थानुच्छेदायाविध्यनुष्ठानमपि कर्तव्यमिति नालम्बनीयम् । 'यद्'-यस्मात् 'एवमेव' अविध्यनुष्ठाने क्रियमाण एव 'असमञ्जसविधानात्'-विहितान्यथाकरणादशुद्धपारम्पर्यप्रवृत्त्या सूत्रक्रियाया विनाशः, 'स' एष तीर्थोच्छेदः । न हि तीर्थनाम्ना जनसमुदाय एव तीर्थम्, आज्ञारहितस्य तस्यास्थिसंघातरूपत्वप्रतिपादनात्, किन्तु सूत्रविहितयथोचितक्रियाविशिष्टसाधुसाध्वीश्रावकश्राविका समुदायः । तथा चाविधिकरणे सूत्रक्रियाविनाशात्परमार्थतस्तीर्थविनाश एवेति तीर्थोच्छेदालम्बनेनाविधिस्थापने लाभमिच्छतो मूलक्षतिरायातेत्यर्थः ॥१४॥ सूत्रक्रियाविनाशस्यैवाहितावहतां स्पष्टयन्नाह
सो एस वंकओ चिय, न य सयमयमारियाणमविसेसो ।
एयं पि भावयिव्वं, इह तित्थुच्छेयभीरूहि ॥ १५ ॥ 'सो एस' ति । स एष' सूत्रक्रियाविनाश : 'वक्र एव' तीर्थोच्छेदपर्यवसायितया दुरन्तदुःखफल एव । ननु शुद्धक्रियाया एव पक्षपाते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org