________________
योगविंशिका सूत्र- १३ अनुष्ठानं, ऐहिकभोगनिस्पृहस्य स्वर्गभोगस्पृहया गरमाहुः 'विहितनीत्यैव' विषोक्तनीत्यैव, केवलं कालान्तरे-भवान्तररूपे निपातनात्-अनर्थसम्पादनात् । विषं सद्य एव विनाशहेतुः, गरश्च कालान्तरेणेत्येवमुपन्यासः ॥
"अनाभोगवतश्चैतदननुष्ठानमुच्यते सम्प्रमुग्धं मनोऽस्येति, ततश्चैतद्यथोदितम्" ॥ (१५८ श्लो.) ॥ 'अनाभोगवतः' कुत्रापि फलादावप्रणिहितमनसः ‘एतद्' अनुष्ठानं 'अननुष्ठानं' अनुष्ठानमेव न भवतीत्यर्थः । सम् इति समन्ततः प्रकर्षेण मुग्धं सन्निपातोपहतस्येवानध्यवसायापनं मनोऽस्य, 'इति:' पादसमाप्तौ । यत एवं ततो यथोदितं तथैव ॥
"एतद्रागादिदं हेतु; श्रेष्ठो योगविदो विदुः । सदनुष्ठानभावस्य, शुभभावां- शयोगतः ॥" (१५९ श्लो.) ॥ एतद्रागात्' सदनुष्ठानबहुमानात् 'इदं' आदिधार्मिककालभावि देवपूजाद्यनुष्ठानं "सदनुष्ठानभावस्य' तात्त्विकदेवपूजाद्याचारपरिणामस्य मुक्तयद्वेषेण मनाग मुक्तयनुरागेण वा शुभभावलेशयोगात् 'श्रेष्ठो' अवन्ध्यो हेतुरिति योगविदो 'विदुः' जानते । "जिनोदितमिति त्वाहु भविंसारमदः पुनः । संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः" ॥ (१६० श्लो.) ॥ जिनोदितमित्येव 'भावसारं' श्रद्धाप्रधानं 'अदः' अनुष्ठानं 'संवेगगर्भ'-मोक्षाभिलाषसहितं 'अत्यन्तं' अतीव अमरणहेतुत्वा- दमृतसंज्ञमाहुः 'मुनिपुङ्गवाः' गौतमादिमहामुनयः ॥ एतेषु त्रयं योगाभासत्वा- दहितम् । द्वयं तु सद्योगत्वाद्धितमिति तत्त्वम् । यत एवं स्थानादियत्ना- भाववतोऽनुष्ठाने महादोषः 'तत्' तस्मात् 'अनुरूपाणामेव'योग्यानामेव 'एतद्विन्यासः'-चैत्यवन्दनसूत्रप्रदानरूपः कर्तव्यः ॥१२॥ के एतद्विन्यासानुरूपा इत्याकाङ्क्षायामाह. जे देसविरइजुत्ता, जम्हा इह वोसिरामि कायं ति ।
सुच्चइ विरईए इमं, ता सम्मं चिंतियव्वमिणं ॥१३॥ 'जे' इत्यादि । ये 'देशविरतियुक्ताः' पञ्चमगुणस्थानपरिणतिमन्तः ते इह अनुरूपा इति शेषः । कुतः ? इत्याह-यस्मात् 'इह' चैत्यवन्दनसूत्रे "व्युत्सृजामि कायम्" इति श्रूयते, इदं च विरतौ सत्यां संभवति, तदभावे कायव्युत्सर्गासम्भवात्, तस्य गुप्तिरूपविरतिभेदत्वात्, ततः सम्यक्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org