________________
योगविंशिका सूत्र - १२ इहरा उ कायवासियपायं अहवा महामुसावाओ ।
ता अणुरूवाणं चिय, कायव्वो एयविनासो ॥ १२ ॥ 'इहराउ'त्ति । 'इतरथा तु'-अर्थालम्बनयोगाभाववतां स्थानादियत्नाभावे तु तत् चैत्यवन्दनानुष्ठानं 'कायवासितप्रायं'-सम्मूछेनजप्रवृत्तितुल्यकाय चेष्टितप्रायं मानसोपयोगशून्यत्वात्, उपलक्षणाद्वाग्वासितप्रायमपि द्रष्टव्यं, तथा चाननुष्ठानरूपत्वानिष्फलमेतदिति भावः । अथवा'-इति दोषान्तरे, तच्चैत्यवन्दनानुष्ठानं महामृषावादः, "स्थानमौनध्यानैरात्मानं व्युत्सृजामि" (ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि) इति प्रतिज्ञया विहितस्य चैत्यवन्दनकायोत्सर्गादेः स्थानादिभङ्गे मृषावादस्य स्फुटत्वात्, स्वयं विधिविपर्ययप्रवृत्ती परेषामेतदनुष्ठाने मिथ्यात्वबुद्धिजननद्वारा तस्य लौकिकमृषावादादतिगुरुत्वाच्च, तथा च विपरीतफलं तेषामेतदनुष्ठानं सम्पन्नम् । येऽपि स्थानादिशुद्धमप्यैहिककीर्त्यादीच्छयाऽऽमुष्मिकस्वर्लोकादिविभूतीच्छया वैतदनुष्ठानं कुर्वन्ति तेषामपि मोक्षार्थकप्रतिज्ञया विहितमेतत्तद्विपरीतार्थतया क्रियमाणं विषगरानुष्ठानान्तर्भूतत्वेन महामृषावादानुबन्धित्वाद्विपरीतफलमेवेति ।
विषाद्यनुष्ठानस्वरूपं चेत्थमुपदर्शितं पतञ्जल्याधुक्तभेदान् स्वतन्त्रेण संवादयता ग्रन्थकृतैव योगबिन्दौ-"विषं गरोऽननुष्ठानं, तद्धेतुरमृतं परम् । गुर्वादिपूजानुष्ठान- मपेक्षादिविधानतः" ॥ (१५५ श्लो.) ॥ "विषं'स्थावर-जङ्गमभेदभित्रम्, ततो विषमिव विषम्, एवं गर इव गरः, परं गरः कुद्रव्यसंयोगजो विषविशेषः, 'अननुष्ठानं'. अनुष्ठानाभासं, 'तद्धेतुः' अनुष्ठानहेतुः, अमृतमिवामृतं अमरणहेतुत्वात्, अपेक्षा-इहपरलोकस्पृहा, आदिशब्दादनाभोगादेश्च यद् विधानं-विशेषस्तस्मात् ॥
"विषं लब्ध्याद्यपेक्षातः, इदं सच्चित्तमारणात् । महतोऽल्पार्थनाज्ज्ञेयं लघुत्वापादनात्तथा" ॥ (१५६ श्लो.) ॥ लब्ध्यादेः-लब्धिकी.दे: 'अपेक्षातः' स्पृहात: 'इदं' अनुष्ठानं विषं 'सच्चित्तमारणात्' परिशुद्धान्त:करणपरिणामविनाशनात्, तथा महतोऽनुष्ठानस्य 'अल्पार्थनात्'-तुच्छलब्ध्यादिप्रार्थनेन लघुत्वस्यापादनादिदं विषं ज्ञेयम् ॥ "दिव्यभोगाभिलाषेण, गरमाहुर्मनीषिणः । एतद्विहितनीत्यैव, कालान्तरनिपातनात्" ॥ (१५७ श्लो.) ॥ 'एतद्'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org