________________
योगविंशिका सूत्र - ११ 'अरिहंत' इत्यादि । “अरिहंतचेइयाणं करेमि काउस्सग्गं" एवमादि चैत्यवन्दनदण्डकविषयं 'श्रद्धायुक्तस्य'-क्रियास्तिक्यवतः 'तथा' तेन प्रकारेणोच्चार्यमाणस्वरसंपन्मात्रादिशुद्धस्फुटवर्णानुपूर्वीलक्षणेन 'यथार्थ'-अभ्रान्तं पदज्ञानं भवति, परिशुद्धपदोच्चारे दोषाभावे सति परिशुद्धपदज्ञानस्य श्रावणसामग्रीमात्राधीनत्वादिति भावः ॥ १० ॥
'एयं च' त्ति । 'एतच्च'-परिशुद्धं चैत्यवन्दनदण्डकपदपरिज्ञानम्, अर्थ:-उपदेशपदप्रसिद्धपदवाक्यमहावाक्यैदंपर्यार्थपरिशुद्धज्ञानम्, आलम्बनं चप्रथमे दण्डकेऽधिकृततीर्थकृद्, द्वितीये सर्वे तीर्थकृतः, तृतीये प्रवचनम्, चतुर्थे सम्यग्दृष्टि: शासनाधिष्ठायकः इत्यादि, तद्योगवतः-तत्प्रणिधानवतः 'प्राय:'-बाहुल्येन 'अविपरीतं तु'-अभीप्सितपरमफलसंपादकमेव, अर्थालम्बनयोगयोर्ज्ञानयोगतयोपयोगरूपत्वात्, तत्सहितस्य चैत्यवन्दनस्य भावचैत्यवन्दनत्वसिद्धः, भावचैत्यवन्दनस्य चामृतानुष्ठानरूपत्वेनावश्यं निर्वाणफलत्वादिति भावः । प्रायोग्रहणं सापाययोगवद्व्यावृत्त्यर्थम्। द्विविधो हि योगः-सापायो निरपायश्च, तत्र निरुपक्रममोक्षपथप्रतिकूलचित्तवृत्तिकारणं प्राक्कालार्जितं कर्म अपायस्तत्सहितो योगः सापाय:, तद्रहितस्तु निरपाय इति, तथा च सापायार्थालम्बनयोगवतः कदाचित्फलविलम्बसम्भवेऽपि निरपायतद्वतोऽविलम्बेन फलोत्पत्तौ न व्यभिचार इति प्रायोग्रहणार्थः । 'इतरेषां-' अर्थालम्बनयोगाभाववतामेतच्चैत्यवन्दनसूत्रपदपरिज्ञानं 'स्थानादिषु यत्नवतां' गुरूपदेशानुसारेण विशुद्धस्थानवर्णोद्यमपरायणानामालम्बनयोगयोश्च तीव्रस्पृहावतां 'परं'-केवलं श्रेयः, अर्थालम्बनयोगाभावे वाचनायां पृच्छनायां परावर्तनायां वा तत्पदपरिज्ञानस्यानुप्रेक्षाऽसंवलितत्वेन 'अनुपयोगो द्रव्यम्' इतिकृत्वा द्रव्यचैत्यवन्दनरूपत्वेऽपिस्थानोर्णयोगयत्नातिशयादालम्बनस्पृहयालुतया च तंद्धत्वनुष्ठानरूपतया भावचैत्यवन्दनद्वारा परम्परया स्वफलसाधकत्वादिति भावः ॥ ११ ॥ स्थानादियत्नाभावे च तच्चैत्यवन्दनानुष्ठानमप्राधान्यरूपद्रव्यतामास्कन्दनिष्कलं विपरीतफलं वा स्यादिति लेशतोऽपि स्थानादियोगाभाववन्तो नैतत्प्रदानयोग्या इत्युपदिशत्राह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org