________________
योगविंशिका सूत्र- ८-९-१०-११ अणुकंपा निव्वेओ, संवेगो होइ तह य पसमु ति ।
एएसिं अणुभावा, इच्छाईणं जहासंखं ॥ ८॥ 'अणुकंप'त्ति । अनुकम्पा'-द्रव्यतो भावतश्च यथाशक्ति दुःखितदुःखपरिहारेच्छा, 'निर्वेदः' नैर्गुण्यपरिज्ञानेन भवचारकाद्विरक्तता, 'संवेगः' मोक्षाभिलाषः, तथा 'प्रशमश्च' क्रोधकण्डूविषयतृष्णोपशमः, इत्येते 'एतेषां' इच्छादीनां योगानां यथासङ्ख्यं अनु-पश्चाद् भावाः 'अनुभावा:'-कार्याणि भवन्ति । यद्यपि सम्यक्त्वस्यैवैते कार्यभूतानि लिङ्गानि प्रवचने प्रसिद्धानि तथापि योगानुभवसिद्धानां विशिष्टानामेतेषामिहेच्छायोगादिकार्यत्वमभिधीयमानं न विरुध्यत इति द्रष्टव्यम् । वस्तुतः केवलसम्यक्त्वलाभेऽपि व्यवहारेणेच्छादियोगप्रवृत्तेरेवानुकम्पादिभावसिद्धेः अनुकम्पादिसामान्ये इच्छायोगादिसामान्यस्य तद्विशेषे च तद्विशेषस्य हेतुत्वमित्येव न्यायसिद्धम् । अत एव शमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यलक्षणानां सम्यक्त्वगुणानां पश्चानुपूर्व्यव लाभक्रमः, प्राधान्याच्चेत्थमुपन्यास इति सद्धर्मविंशिकायां प्रतिपादितम् ॥८॥ तदेवं हेतुभेदेनानुभावभेदेन चेच्छादिभेदविवेचनं कृतम्, तथा च स्थानादावेकैकस्मिनिच्छादिभेदचतुष्टयसमावेशादेतद्विषया अशीतिर्भेदाः संपन्नाः, एतनिवेदनपूर्वमिच्छादिभेदभिन्नानां स्थानादीनां सामान्येन योजनां शिक्षयन्नाह
एवं ठियम्मि तत्ते, नाएण जोयणा इमा पयडा ।
चिइवंदणेण नेया, नवरं तत्तण्णुणा सम्मं ॥ ९ ॥ 'एवं' इत्यादि । एवं' अमुना प्रकारेणेच्छादिप्रतिभेदैरशीतिभेदो योगः, सामान्यतस्तु स्थानादिः पञ्चभेद इति 'तत्त्वे' योगतत्त्वे 'स्थिते' व्यवस्थिते 'ज्ञातेन तु' दृष्टान्तेन तु चैत्यवन्दनेन इयं प्रकट' क्रियाभ्यासपरजनप्रत्यक्षविषया 'योजना' प्रतिनियतविषयव्यवस्थापना, 'नवरं'-केवलं तत्त्वज्ञेन 'सम्यग्' अवैपरीत्येन ज्ञेया ॥९॥ तामेवाह
अरिहंतचेइयाणं करेमि उस्सग्गं एवमाइयं । सद्धाजुत्तस्स तहा, होइ जहत्थं पयत्राणं ॥ १० ॥ एयं चऽत्थालंबणजोगवओ पायमविवरीयं तु । इयरेसिं ठाणाइस, जत्तपराणं परं सेयं ॥ ११ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org