________________
योगविंशिका सूत्र - ७
'तह चेव' त्ति । तथैव' प्रवृत्तिवदेव सर्वत्रोपशमसारं स्थानादिपालनमेतस्य - पाल्यमानस्य स्थानादेर्बाधकचिन्तारहितं स्थिरत्वं ज्ञेयम् प्रवृत्तिस्थिरयोगयोरेतावान् विशेष: यदुत प्रवृत्तिरूपं स्थानादियोगविधानं सातिचारत्वाद्बाधकचिन्तासहितं भवति । स्थिररूपं त्वभ्याससौष्ठवेन निर्बाधकमेव जायमानं तज्जातीयत्वेन बाधकचिन्ताप्रतिघाताच्छुद्धिविशेषेण तदनुत्थानाच्च तद्रहितमेव भवतीति । 'सर्व' स्थानादि स्वस्मिन्नुपशमविशेषादिफलं जनयदेव परार्थसाधकं - स्वसन्निहितानां स्थानादियोगशुद्ध्यभाववतामपि तत्सिद्धिविधानद्वारा परगतस्वसदृशफलसंपादकं पुनः सिद्धिर्भवति । अतः एव सिद्धाऽहिंसानां समीपे हिंसाशीला अपि हिंसां कर्तुं नालम्, सिद्धसत्यानां च समीपेऽसत्यप्रिया अप्यसत्यमभिधातुं नालम् । एवं सर्वत्रापि ज्ञेयमू । 'इति : ' इच्छादिभेदपरिसमाप्तिसूचकः । अत्रायं मत्कृतः संग्रहश्ोकः " इच्छा तद्वत्कथाप्रीतिः, पालनं शमसंयुतम् । पालनं ( प्रवृत्ति:) दोषभीहानिः स्थैर्य सिद्धिः परार्थता ॥ १ ॥ " इति ॥ ६ ॥
उक्ता इच्छादयो भेदाः, अथैतेषां हेतूनाह
-
Jain Education International
एए य चित्तरूवा, तहाखओवसमजोगओ हुंति । तस्स उ सद्धापीयाइजोगओ भव्वसत्ताणं ॥ ७ ॥ 'एए य' त्ति । 'एते च' इच्छादयः 'चित्ररूपा: ' - परस्परं विजातीयाः स्वस्थाने चासङ्ख्यभेदभाजः, 'तस्य तु' अधिकृतस्य स्थानादियोगस्यैव श्रद्धाइदमित्थमेवेति प्रतिपत्तिः, प्रीतिः- तत्करणादौ हर्ष, आदिना धृतिधारणादिपरिग्रहः, तद्योगत: 'भव्यसत्त्वानां ' - मोक्षगमनयोग्यानामपुनर्बन्धकादिजन्तूनां 'तथाक्षयोपशमयोगतः ' तत्तत्कार्यजननानुकूलविचित्रक्षयोपशमसंपत्त्या भवन्ति, इच्छायोगादिविशेषे आशयभेदाभिव्यङ्ग्यः क्षयोपशमभेदो हेतुरिति परमार्थः । अत एव यस्य यावन्मात्रः क्षयोपशमस्तस्य तावन्मात्रेच्छादिसंपत्त्या मार्गे प्रवर्तमानस्य सूक्ष्मबोधाभावेऽपि मार्गानुसारिता न व्याहन्यत इति संप्रदायः ॥ ७ ॥
इच्छादीनामेव हेतुभेदमभिधाय कार्यभेदमभिधत्ते
-
For Personal & Private Use Only
www.jainelibrary.org