SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ योगविंशिका सूत्र- ४-५-६ चारित्रिण एव । सकृद्बन्धकादीनां तु स्थानादिकमशुद्धपरिणामत्वान्निश्चयतो व्यवहारतश्च न योगः किन्तु योगाभास इत्यवधेयम् । उक्तं च- " सकृदावर्तनादीनामतात्त्विक उदाहृतः । प्रत्यपायफलप्रायस्तथा वेषादिमात्रतः ॥ ३७० ॥" (यो. बि.) सकृद्-एकवारमावर्तन्ते उत्कृष्टां स्थितिं बध्नन्ति ये ते सकृदावर्तनाः, आदिशब्दाद्विरावर्त्तनादिग्रहः, 'अतात्त्विकः ' व्यवहारतो निश्चयतश्चातत्त्वरूपः ॥ ३ ॥ तदेवं स्थानादियोगस्वामित्वं विवेचितम् अथैतेष्वेव प्रतिभेदानाहइक्किको य चउद्धा, इत्थं पुण तत्तओ मुणेयव्वो । इच्छा - पवित्ति-थिर-सिद्धिभेयओ समयनीईए ॥४॥ 'इक्किक्को य'त्ति ।‘अत्र' स्थानादौ 'पुनः ' कर्मज्ञानविभेदाभिधानापेक्षया भूयः एकैकश्चतुर्द्धा 'तत्त्वत:' सामान्येन दृष्टावपि परमार्थतः 'समयनीत्या' योगशास्त्रप्रतिपादितपरिपाट्या 'इच्छाप्रवृत्तिस्थिरसिद्धिभेदतः - इच्छाप्रवृत्तिस्थिरसिद्धिभेदानाश्रित्य 'मुणेयव्वो' त्ति ज्ञातव्यः ॥ ४ ॥ तानेव भेदान् विवरीषुराह ६ तज्जुत्तकहापीईइ संगया विपरिणामिणी इच्छा । सव्वत्थुवसमसारं तप्पालणमो पवत्ती उ ॥ ५ ॥ तह चेव एयबाहगचिंतारहियं थिरत्तणं नेयं । सव्वं परत्थसाहगरूवं पुण होइ सिद्धि त्ति ॥ ६ ॥ ' तज्जुत्तकहा' इत्यादि । तद्युक्तानां - स्थानादियोगयुक्तानां कथायां प्रीत्या अर्थबुभुत्सयाऽर्थबोधेन वा जनितो यो हर्षस्तल्लक्षणया संगता - सहिता 'विपरिणामिनी' विधिकर्तृबहुमानादिगर्भं स्वोल्लासमात्राद्यत्किञ्चिदभ्यासादिरूपं विचित्रं परिणाममादधाना इच्छा भवति, द्रव्यक्षेत्राद्यसामग्रयेणाङ्गसाकल्याभावेऽपि यथाविहितस्थानादियोगेच्छया यथाशक्ति क्रियमाणं स्थानादि इच्छारूपमित्यर्थः । प्रवृत्तिस्तु 'सर्वत्र' सर्वावस्थायां 'उपशमसारं' उपशमप्रधानं यथा स्यात्तथा 'तत्पालनं - यथाविहितस्थानादियोगपालनम्, 'ओ' त्ति प्राकृतत्वात् वीर्यातिशयाद् यथाशास्त्रमङ्गसाकल्येन विधीयमानं स्थानादि प्रवृत्तिरूपमित्यर्थः ॥ ५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy