________________
योगविंशिका सूत्र - ३ चोक्तं महात्मभिः । अत्र पूर्वोदितो योगोऽध्यात्मादिः संप्रवर्तते ॥ ३५७ ॥" इति । 'देशादिभेदतः' देशसर्वविशेषाद् 'इदं' चारित्रं 'अध्यात्मादिः'अध्यात्म १ भावना २ आध्यानं ३ समता ४ वृत्तिसंक्षयश्च ५ । तत्राध्यात्म उचितप्रवृत्तेतभृतो मैत्र्यादिभावगर्भ शास्त्राज्जीवादितत्त्वचिन्तनम् १, भावना अध्यात्मस्यैव प्रतिदिनं प्रवर्धमानश्चित्तवृत्तिनिरोधयुक्तोऽभ्यास: २, आध्यानं प्रशस्तैकार्थविषयं स्थिरप्रदीपसदृशमुत्पातादिविषयसूक्ष्मोपयोगयुतं चित्तम् ३, समता अविद्याकल्पितेष्टत्वानिष्टत्वसंज्ञापरिहारेण शुभाशुभानां विषयाणां तुल्यताभावनम् ४, वृत्तिसंक्षयश्च मनोद्वारा विकल्परूपाणां शरीरद्वारा परिस्पन्दरूपाणामन्यसंयोगात्मकवृत्तीनामपुनर्भावेन निरोध: ५ । अथैतेषामध्यात्मादीनां स्थानादिषु कुत्र कस्यान्तर्भावः इति चेद् ? उच्यते-अध्यात्मस्य चित्रभेदस्य देवसेवाजपतत्त्वचिन्तनादिरूपस्य यथाक्रमं स्थाने ऊर्णेऽर्थे च । भावनाया अपि भाव्यसमानविषयत्वात्तत्रैव । ध्यानस्यालम्बने । समतावृत्तिसंक्षययोश्च तदन्ययोग इति भावनीयम् । ततो देशतः सर्वतश्च चारित्रिण एव स्थानादियोगप्रवृत्तिः संभवतीति सिद्धम् ।
ननु. यदि देशतः सर्वतश्च चारित्रिण एव स्थानादिर्योगः तदा देशविरत्यादिगुणस्थानहीनस्य व्यवहारेण श्राद्धधर्मादौ प्रवर्तमानस्य स्थानादिक्रि यायाः सर्वथा नैष्फल्यं स्यादित्याशङ्कयाह-'इतरस्य'देशसर्वचारित्रिव्यतिरिक्तस्य स्थानादिकं 'इत एव' देशसर्वचारित्रं विना योगसंभवाभावादेव 'बीजमानं' योगबीजमानं 'केचिद्'-व्यवहारनयप्रधाना इच्छन्ति । "मोक्षकारणीभूतंचारित्रतत्त्वसंवेदनान्तर्भूतत्वेन स्थानादिकं चारित्रिण एव योगः, अपुनर्बन्धकसम्यग्दृशोस्तु तद्योगबीजम्" इति निश्चयनयाभिमतः पन्थाः । व्यवहारनयस्तु योगबीजमप्युपचारेण योगमेवेच्छतीति व्यवहारनयेनापुनर्बन्धकादयः स्थानादियोगस्वामिनः, निश्चयनयेन तु चारित्रिण एवेति विवेकः । तदिदमुक्तम्-अपुनर्बन्धकस्यायं, व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु ॥ ३६९ ॥ (यो.बि.) अपुनर्बन्धकस्य उपलक्षणात्सम्यग्दृष्टेश्च 'व्यवहारेण' कारणे कार्यत्वोपचारेण 'तात्त्विकः', कारणस्यापि कथञ्चित्कार्यत्वात् । 'निश्चयेन'-उपचारपरिहारेण 'उत्तरस्य तु'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org